सुहृदां सोदराणां च सर्वेषां भरतर्षभ। त्वं गतिः परमा तात वृत्रहा मरुतामिव
तस्मिंस्त्रयोदशे वर्षे भ्रातरः सुहृदश्च ते। सर्वे हिसंश्रयिष्यन्ति बाहुवीर्यं महाबल
स पार्थ पितरं गच्छ सहस्राक्षमरिन्दम। मुष्टिग्रहणमादत्स्व सर्वाण्यस्त्राणि वासवात्
शतशृङ्गे महाबाहो मघवानिदमब्रवीत्। शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि
विदितः सर्वभूतानां दिवं तात गमिष्यसि। प्राप्य पुण्यकृतां लोकान्रंस्यसे जयतांवर
मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि। अवाप्यपरमास्त्राणि पृथिवीं पुनरेष्यसि
गुणांस्ते वासवस्तात खाण्डवं दहति त्वयि। शृण्वतां सर्वभूतानां पुनः पुनरभाषत
तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवीम्। कंचिद्देशमितः प्राप्य तपोयोगमना भव
कर्तुमर्हसि कौरव्य मघवद्वचनं हितम्। दीक्षित्वाऽद्यैव गच्छ त्वं द्रष्टाऽसि त्वं पुरन्दरम्
तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाप्युभौ। मनांस्यादाय सर्वेषां प्रयातः पुरुषर्षभः
तं तथा प्रस्थितं वीरं सिंहस्कन्धोरसं तदा। प्राञ्जलिः पाण्डवंकृष्णा देवानां कुर्वती नमः। वाग्भिः परमशुद्धाभिर्मङ्गलाभिरभाषत्
नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद्वनम्। `धर्मस्त्वां जुषतां पार्थ भास्करश्च विभावसुः। ब्रह्मा त्वां ब्राह्मणाश्चैव पालयन्तु धनञ्जय
ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनमास्थितः। प्रपद्येथा वसूव्रुद्रानादित्यान्समरुद्गणान्। विश्वेदेवांस्तथा साध्याञ्शान्त्यर्थं भरतर्षभ
स्वस्ति तेस्त्वान्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ। पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः
अवरोधाद्वने वासात्सर्वस्वहरणादपि। इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनात्
मास्माकं क्षत्रियकुले जातुचित्पुनरुद्भवः। ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका
इदं मे परमं दुःखं यः स पापः सुयोधनः। दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि
तस्माद्दुःखादिदं दुःखं गरीय इतिमे मतिः। यत्तत्परिषदो मध्ये बह्वयुक्तमभाषत
ध्वंसितः स्वगृहेभ्यश्च राष्ट्राच्च भरतर्षभ। वने प्रतिष्ठितो भूत्वा सौहार्दादवतिष्ठसे
जेता यः सर्वशत्रूणां यः पावकमतर्पयः। जनस्त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ
अस्मिन्नूनं महारण्ये भ्रातरः सुहृदश्च ते। त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस्तथा
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय। तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि
वसुदेवस्वसा देवी त्वामार्या पुनरागतम्। पश्यतु त्वां पृथा पार्थ सहस्राक्षमिवादितिः
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे। रंस्यन्ते तव कर्माणि कीरत्यन्तः पुनः पुनः
न च नः पार्थ भोगेषु न धने नोत जीविते। तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि
त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठते। जीवितं मरणं चैव राज्यमैश्वर्यमेव च
आपृष्टो नोसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव। कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम्
बलवद्भिर्विरुद्धं न कार्यमेतत्त्वयाऽनघ। प्रयाह्यविघ्नेयैवाशु विजयाय महाबल
ह्रीः श्रीः कीर्तिर्धृतिः पुष्टिरुमा लक्ष्मीः सरस्वती। इमा वै तव पान्थस् पालयन्तु धनञ्जय
एवमुक्त्वाऽऽशिषः कृष्णा विरराम यशस्विनी