निदेशाद्धर्मराजस्य द्रष्टुकामः पुरंदरम्। धनुर्गाण्डीवमादाय तथाऽक्षय्ये महेषुधी
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान्। हत्वाऽग्निं ब्राह्मणान्निष्कैः स्वस्तिवाच्य मह्यभुज
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः। वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदैक्षत
तं दृष्ट्वा तत्रकौन्तेयं प्रगृहीतशरासनम्। अब्रुवन्ब्रह्मणाः सिद्धा भूतान्यन्तर्हितानि च
क्षिप्रमाप्नुहि कौन्तेय मनसा यद्यदिच्छसि। संसाधयस्व कौन्तेय ध्रुवोस्तु विजयस्तव
अब्रुवन्ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः। `सिद्धचारणसङ्घाश्च गन्धर्वाश्च तमब्रुवन्
स्वस्तिव्रतमुपाधत्स्व सङ्कल्पस्तव सिद्ध्यताम्। मनोरथाश्च ते सर्वे समृद्ध्यन्तां महारथ
एवमुक्तोऽभिवाद्यैतान्बद्धाञ्जलिपुटस्तथा। तपोयोगमनाः पार्थः पुरोहितमवन्दत
ततः प्रीतमना जिष्णुस्तावुभावभ्यवन्दत। सहोदरावतिरथौ युधिष्ठिरवृकोदरौ
तं क्लान्तमनसौ पूर्णमभिगम्य महारथौ। यमौ गाण्डीवधन्वानमभ्यवादयतामुभौ
अभिवाद्य तु तौ वीरावूचतुः पाकशासनिम्। अवाप्तव्यानि सर्वाणि दिव्यान्यस्त्राणि वासवात्। अस्त्राण्याप्नुहि कौन्तेय मनसा यद्यदिच्छसि
गिरो ह्यशिथिलाः सर्वा निर्दोषाः संमताः सताम्। त्वमेकः पाण्डवेष्वद्य संप्राप्तोसि धनञ्जय
न चाधर्मविदं देवा नासिद्धं नातपस्विनम्। द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं शठं न च
रोरूयमाणः कटुकमीर्ष्यकः कटुकाक्षरः। शठकः श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता
विश्वस् हन्ता मायावी क्रोधनोऽनृतभाषिता। अत्याशी नास्तिकोऽदाता मित्रध्रुक्सर्वशङ्कितः
आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः। स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः
संभावितात्मा चात्यर्थं नृशंसः पुरुषश्च यः। नैते लोकानाप्नुवन्ति निर्लोकास्ते धनञ्जय
आनृशंस्यमनुक्रोशः सत्यं करुणवेदिता। दमः स्थितिर्धृतिर्धर्मः क्षमा कृत्यमनुत्तमम्
दया शमश्च धर्मश्च गुरुपूजा कृतज्ञता। मैत्रता द्विजभक्तिश्च वसन्ति त्वयि फल्गुन। व्यपेक्षा सर्वभूतेषु कृपा दानं मतिः स्मृतिः
तस्मात्कौरव्य शक्रेण समेष्यसि धनञ्जय। त्वादृशेन हि देवानां श्लाघनीयः समागमः
सुहृदां सोदराणां च सर्वेषां भरतर्षभ। त्वं गतिः परमा तात वृत्रहा मरुतामिव
तस्मिंस्त्रयोदशे वर्षे भ्रातरः सुहृदश्च ते। सर्वे हिसंश्रयिष्यन्ति बाहुवीर्यं महाबल
स पार्थ पितरं गच्छ सहस्राक्षमरिन्दम। मुष्टिग्रहणमादत्स्व सर्वाण्यस्त्राणि वासवात्
शतशृङ्गे महाबाहो मघवानिदमब्रवीत्। शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि
विदितः सर्वभूतानां दिवं तात गमिष्यसि। प्राप्य पुण्यकृतां लोकान्रंस्यसे जयतांवर
मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि। अवाप्यपरमास्त्राणि पृथिवीं पुनरेष्यसि
गुणांस्ते वासवस्तात खाण्डवं दहति त्वयि। शृण्वतां सर्वभूतानां पुनः पुनरभाषत
तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवीम्। कंचिद्देशमितः प्राप्य तपोयोगमना भव
कर्तुमर्हसि कौरव्य मघवद्वचनं हितम्। दीक्षित्वाऽद्यैव गच्छ त्वं द्रष्टाऽसि त्वं पुरन्दरम्
तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाप्युभौ। मनांस्यादाय सर्वेषां प्रयातः पुरुषर्षभः