तं पापमतिसंक्रुद्धस्तक्षकः पन्नगेश्वरः। आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः
सप्तरात्रादितो नेता यमस्य सदनं प्रति। द्विजानामवमन्तारं कुरूणामयशस्करम्
इति शप्त्वातिसंक्रुद्धः शृङ्गी पितरमभ्यगात्। आसीनं ग्रोव्रजे तस्मिन्वहन्तं शवपन्नगम्
स तमलक्ष्य पितरं शृङ्गी स्कन्धगतेन वै। शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्। श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना
राज्ञा परिक्षिता कोपादशपं तमहं नृपम्। यथार्हति स एवोग्रं शापं कुरुकुलाधमः। सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्
न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम्। वयं तस्य नरेन्द्रस्य विषये निवसामहे
न्यायतो रक्षितास्तेन तस्य पापं न रोचये। सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः। यदि राजा न संरक्षेत्पीडा नः परमा भवेत्
न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम्। रक्षमाणा वयं तात राजभिर्धर्मदृष्टिभिः
चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः। सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि
परिक्षित्तु विशेषेण यथाऽस्य प्रपितामहः। रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो
अराजके जनपदे दोषा जायन्ति वै सदा। उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै
दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा। नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम्
राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः। राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः
देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः। ओषधिभ्यो मनुष्याणां धारयन्सततं हितम्
मनुष्याणां च यो धाता राजा राज्यकरः पुनः। दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत्
तेनेह क्षुधितेनैत्य श्रान्तेन मृगलिप्सुना। अजानता कृतं मन्ये व्रतमेतदिदं मम
कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्। न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम्। प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत्
नैवान्यथेदं भविता पितरेष ब्रवीमि ते। नाहं मृषा ब्रवीम्येवं स्वैरेष्वपि कुतः शपन्
जानाम्युग्रप्रभावं त्वां तात सत्यगिरं तथा। नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति
पित्रा पुत्रो वयस्थोऽपि सततं वाच्य एव तु। यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः
किं पुनर्बाल एव त्वं तपसा भावितः सदा। वर्धते चेत्प्रभवतां कोपोऽतीव महात्मनाम्
उत्सीदेयुरिमे लोकाः क्षणा चास्य प्रतिक्रिया।' सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर। पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम्
स त्वं शमपरो भूत्वा वन्यमाहारमाचरन्। चर क्रोधमिमं हित्वा नैवं धर्मं प्रहास्यसि
क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्। ततो धर्मविहीनानां गतिरिष्टा न विद्यते
शम एव यतीनां हि क्षमिणां सिद्धिकारकः। क्षमावतामयं लोकः परश्चैव क्षमावताम्
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः। क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान्