अद्य चेयं मही कृत्स्ना दुर्याधनवशानुगा। सग्रामनगरा पार्थ ससागरवनाकरा ।। भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः
अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम। कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया
गृहीतया तया सम्यग्जगत्सर्वं प्रकाशते। तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः
देवतानां यथाकालं प्रसादं प्रतिपालय। तपसा योजयात्मानमुग्रेण भरतर्षभ
धनुष्मान्कवची खङ्गी मुनिः साधुव्रते स्थितः। न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम्
इनद्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय। वृत्राद्भीतैर्बलं देवैस्तदा शक्रे समर्पितम्
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे। `अनेन ब्रह्मणा तात सर्वं संप्रतिपद्यते
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति। दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम्
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः
दीक्षितं विधिना तेन यतवाक्कायमानसम्। अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः
निदेशाद्धर्मराजस्य द्रष्टुकामः पुरंदरम्। धनुर्गाण्डीवमादाय तथाऽक्षय्ये महेषुधी
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान्। हत्वाऽग्निं ब्राह्मणान्निष्कैः स्वस्तिवाच्य मह्यभुज
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः। वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदैक्षत
तं दृष्ट्वा तत्रकौन्तेयं प्रगृहीतशरासनम्। अब्रुवन्ब्रह्मणाः सिद्धा भूतान्यन्तर्हितानि च
क्षिप्रमाप्नुहि कौन्तेय मनसा यद्यदिच्छसि। संसाधयस्व कौन्तेय ध्रुवोस्तु विजयस्तव
अब्रुवन्ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः। `सिद्धचारणसङ्घाश्च गन्धर्वाश्च तमब्रुवन्
स्वस्तिव्रतमुपाधत्स्व सङ्कल्पस्तव सिद्ध्यताम्। मनोरथाश्च ते सर्वे समृद्ध्यन्तां महारथ
एवमुक्तोऽभिवाद्यैतान्बद्धाञ्जलिपुटस्तथा। तपोयोगमनाः पार्थः पुरोहितमवन्दत
ततः प्रीतमना जिष्णुस्तावुभावभ्यवन्दत। सहोदरावतिरथौ युधिष्ठिरवृकोदरौ
तं क्लान्तमनसौ पूर्णमभिगम्य महारथौ। यमौ गाण्डीवधन्वानमभ्यवादयतामुभौ
अभिवाद्य तु तौ वीरावूचतुः पाकशासनिम्। अवाप्तव्यानि सर्वाणि दिव्यान्यस्त्राणि वासवात्। अस्त्राण्याप्नुहि कौन्तेय मनसा यद्यदिच्छसि
गिरो ह्यशिथिलाः सर्वा निर्दोषाः संमताः सताम्। त्वमेकः पाण्डवेष्वद्य संप्राप्तोसि धनञ्जय
न चाधर्मविदं देवा नासिद्धं नातपस्विनम्। द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं शठं न च
रोरूयमाणः कटुकमीर्ष्यकः कटुकाक्षरः। शठकः श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता
विश्वस् हन्ता मायावी क्रोधनोऽनृतभाषिता। अत्याशी नास्तिकोऽदाता मित्रध्रुक्सर्वशङ्कितः
आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः। स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः
संभावितात्मा चात्यर्थं नृशंसः पुरुषश्च यः। नैते लोकानाप्नुवन्ति निर्लोकास्ते धनञ्जय
आनृशंस्यमनुक्रोशः सत्यं करुणवेदिता। दमः स्थितिर्धृतिर्धर्मः क्षमा कृत्यमनुत्तमम्
दया शमश्च धर्मश्च गुरुपूजा कृतज्ञता। मैत्रता द्विजभक्तिश्च वसन्ति त्वयि फल्गुन। व्यपेक्षा सर्वभूतेषु कृपा दानं मतिः स्मृतिः
तस्मात्कौरव्य शक्रेण समेष्यसि धनञ्जय। त्वादृशेन हि देवानां श्लाघनीयः समागमः