सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः। युधिष्ठिरमिदं वाक्यमुवाच वदतांवरः
युधिष्ठिर महाबाहो वेद्मि ते हृदयस्थितम्। मनीषया तत क्षिप्रमागतोस्मि नरर्षभ
भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत। दुर्योधनान्नृपसुतात्तथा दुःशासनादपि
त्ते भयममित्रघ्न हृदि संपरिवर्तते। तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना
तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय। प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि
तत एकान्तमानाय्य पाराशर्यो युधिष्ठिरम्। अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः
श्रेयसस्तेऽपरः कालः प्राप्तो भरतसत्तम। येनाभिभविता शत्रून्रणे पार्थो धनुर्धरः
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमर्तामिव। विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते
यामवाप्यमहाबाहुरर्जुनः साधयिष्यति। अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु
वरुणं च कुबेरं च धर्मराजं च पाण्डव। शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च
ऋषिरेष मेहातेजा नारायणसहायवान्। पुराणः शास्वतो देवस्त्वजेयो जिष्णुरच्युतः
अस्त्राणीनद्राच्च रुद्राच्च लोकपालेभ्य एव च। समादाय महाबाहुर्महत्कर्म करिष्यति
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम्। निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते
एकत्रचिरवासो हि न प्रीतिजननो भवेत्। तापसानां च शान्तानां भवेदुद्वेगकारकः
मृगाणामुपरोधश्च वीरुदोषधिसंक्षयः। बिभर्षि च बहून्विप्रान्वेदवेदाङ्गपारगान्
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः। प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम्
धर्मराजाय धीमान्स व्यासः सत्यवतीसुतः। अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः। धारयामास मेधावी कालेकाले सदाऽभ्यसन्
स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः। ययौ सरस्वतीकूले काम्यकं नाम काननम्
तमन्वयुर्महाराज शिक्षाक्षरविशारदाः। ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा
ततः काम्यकमासाद्य पुनस्ते भरतर्षभ। न्यविशन्त महात्मानः सामान्याः सपदानुगाः
तत्रते न्यवसन्राजन्कंचित्कालं मनस्विनः। धनुर्वेदपरा वीरा गृणाना वेदमुत्तमम्
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः। पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः। संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत्
विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ। सान्त्वपूर्वं स्मितं कृत्वापाणिना परिसंस्पृशन्
स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः। धनंजयंधर्मराजो रहसीदमुवाच ह
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत। धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः
दैवं ब्राह्मं चासुरं च सप्रयोगचिकित्सितम्। सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः। संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते। सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा
आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्न्युत। शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः