मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः। अज्ञातचर्यां पश्यन्ति मेरोरिव निगूहनम्
तथैव बहव्रोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः। राजानो राजपुत्राश्च धार्तराष्ट्रमनुव्रताः
न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः। अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूंश्चरान्। आचक्षीरंश्च नो ज्ञात्वा ततः स्यात्सुमहद्भयम्
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश। परिमाणएन तान्पश्य तावतः परिवत्सरान्
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः। पूतिकानिव सोमस्य तथेदं क्रियतामिति
अथवाऽनडुहे राजन्साधने साधुवाहिने। सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया। क्षत्रियस्य हि सर्वस्य नान्यो धर्मोस्ति संयुगात्
भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः
श्रुता मे राजधर्माश्च वर्णानां च पृथक्पृथक्। आयत्यां च तदात्वे च यः पश्यति स पश्यति
धर्मस्य जानमानोऽहं गतिमग्र्यां सुदुर्विदाम्। कथं बलात्करिष्यामि मेरोरिव विवर्तनम्
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम्। भीमसेनमिद वाक्यमपदान्तरमब्रवीत्
एवमेतन्महाबाहो यथा वदसि भारत। इदमन्यत्समादत्स्व वाक्यं मे वाक्यकोविद
महापापानि कर्माणि यानि केवलसाहसात्। आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत
सुमन्त्रिते सुविक्रान्ते सुकृतेसुविचारिते। सिद्ध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम्
यत्तु केवलचापल्याद्बलदर्पोत्थितः स्वयम्। आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्रमे
भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान्। भीष्मो द्रोणश्च कर्णशच् द्रोणपुत्रश्च वीर्यवान्
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः। सर्व एव कृताशस्त्राश्च सततं चाततायिनः
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः। ते श्रिताः कौरवं पक्षं जातस्नेहाश्च सांप्रतम्
दुर्योधनहिते युक्ता न तथाऽस्मासु भारत। पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे
सर्वे कौरवसैन्यस् सपुत्रामात्यसैनिकाः। संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः
दुर्योधनेन ते वीरा मानिताश्च विशेषतः। प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च। द्रोणस् च महाबाहो कृषस्य च महात्मनः
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः। तस्मात्त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान्
सर्वेदिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः। अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः
अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः। सर्वास्त्रविदनाधृष्यो ह्यभेद्यकवचावृतः
अनिर्जित्यरणे सर्वानेतान्पुरुषसत्तमान्। अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया
न निद्रामधिगच्छामि चिन्तयानो वृकोदर। अतिसर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम्
एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः। बभूव शान्तिसंयुक्तो गुरोर्वचनवारितः
तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः। आजगाम महायोगी व्यासः सत्यवतीसुतः