शीलदोषाद्धृणाविष्ट आनृशंस्यात्परंतप। क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः। अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी
घृणी ब्राह्मणरूपोसि कथं क्षत्रेष्वजायथाः। अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत्। क्रूरान्निकृतिसंपन्नान्विहितानशमात्मकान्
धार्तराष्ट्रान्महाराज क्षमसे किं दुरात्मनः। कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत्
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च। तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम्। छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि
अज्ञातचर्यागूढेन पृथिव्यां विश्रुतेन च। दिवीव पार्थ सूर्येण न शक्याऽऽचरितुं त्वया
बृहत्साल इवानूपे शाखापुष्पपलावान्। हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्ति
इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू। नकुलः सहदेवश्च कथं पार्थ चरिष्यतः
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम्। विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति
मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः। अज्ञातचर्यां पश्यन्ति मेरोरिव निगूहनम्
तथैव बहव्रोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः। राजानो राजपुत्राश्च धार्तराष्ट्रमनुव्रताः
न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः। अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूंश्चरान्। आचक्षीरंश्च नो ज्ञात्वा ततः स्यात्सुमहद्भयम्
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश। परिमाणएन तान्पश्य तावतः परिवत्सरान्
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः। पूतिकानिव सोमस्य तथेदं क्रियतामिति
अथवाऽनडुहे राजन्साधने साधुवाहिने। सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया। क्षत्रियस्य हि सर्वस्य नान्यो धर्मोस्ति संयुगात्
भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः
श्रुता मे राजधर्माश्च वर्णानां च पृथक्पृथक्। आयत्यां च तदात्वे च यः पश्यति स पश्यति
धर्मस्य जानमानोऽहं गतिमग्र्यां सुदुर्विदाम्। कथं बलात्करिष्यामि मेरोरिव विवर्तनम्
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम्। भीमसेनमिद वाक्यमपदान्तरमब्रवीत्
एवमेतन्महाबाहो यथा वदसि भारत। इदमन्यत्समादत्स्व वाक्यं मे वाक्यकोविद
महापापानि कर्माणि यानि केवलसाहसात्। आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत
सुमन्त्रिते सुविक्रान्ते सुकृतेसुविचारिते। सिद्ध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम्
यत्तु केवलचापल्याद्बलदर्पोत्थितः स्वयम्। आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्रमे
भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान्। भीष्मो द्रोणश्च कर्णशच् द्रोणपुत्रश्च वीर्यवान्
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः। सर्व एव कृताशस्त्राश्च सततं चाततायिनः
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः। ते श्रिताः कौरवं पक्षं जातस्नेहाश्च सांप्रतम्
दुर्योधनहिते युक्ता न तथाऽस्मासु भारत। पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे