शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम्। इह यत्नमुपाहृत्य बलेन महताऽन्वितः
स एवमुक्तस्तु महानुभावः सत्यव्रतो भीमसेनेन राजा। अजातशत्रुस्तदनन्तरं वै धैर्यान्वितो वाक्यमिदं बभाषे
असंशयं भारत सत्यमेत- द्यन्मां तुदन्वाक्यशल्यैः क्षिणोषि। न त्वां विगर्हे प्रतिकूलमेत- न्ममानयाद्धि व्यसनं व आगात्
अहं ह्यक्षानन्वपद्यं जिहीर्षन् राज्यंसराष्ट्रं धृतराष्ट्रस्य पुत्रात्। तन्मां शठः कितव प्रत्यदेवी- त्सुयोधनार्थं सुबलस्य पुत्रः
महामायः शकुनिः पार्वतीयः सभामध्ये प्रवपन्नक्षपूगान्। अमायिनं मायया प्रत्यजैषी- त्ततोऽपश्यं वृजिनं भीमसेन
अक्षांश्च दृष्ट्वा शकुनेर्यथावत् कामानुकूलानयुजो युजश्च। शक्यो नियन्तुमभविष्यदात्मा मन्युस्तु हन्यात्पुरुषस्य धैर्यम्
यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः। न ते वाचो भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत्
स नो राजा धृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन्। दास्यं च नोऽगमयद्भीमसेन यत्राभवच्छरणं द्रौपदी नः
त्वं चापि तद्वेत्थ धनंजयश्च पुनर्द्यूतायागतास्तां सभां नः। यन्माऽब्हवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम्
वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो। अथापरं चाविदितश्चरेथाः सर्वैः सह भ्रातृभिश्छद्मरूपः
त्वां चेच्छ्रुत्वा तात तथा चरन्त- मवभोत्स्यन्ते भारतानां चराश्च। अन्यांश्चरेथास्तावतोऽब्दांस्तथात्वं निश्चित्य तत्प्रतिजानीहि पार्थ
चरैश्चेन्नो विदितः कालमेतं युक्तो राजन्मोहयित्वा मदीयान्। ब्रवीमि सत्यं कुरुसंसदीह तवैव ता भारत पञ्च नद्यः
वयं चैतद्भारत सर्व एव त्वया जिताः कालमपास्य भोगान्। चरेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति
तत्र द्यूतमभवन्नो जघन्यं यस्मिञ्जिताः प्रव्रजिताश् सर्वे। इत्थं तु देशाननुसंचरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः
सुयोधनश्चापि न शान्तिमिच्छत् भूयः स मन्योर्वशमन्वगच्छत्। उद्योजयामास कुरूंश्च सर्वान् येचास्य केचिद्वशमन्वगच्छन्
तां सिद्धिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः। आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशासेत्
तदैव चेद्वीरकर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः। बाहू दिधक्षन्वारितः फल्गुनेन किं दुष्कृतंभीम तदाऽभविष्यत्
प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानः। प्राप्तं तु कालं त्वभिपद्यपश्चात् किं मामिदानीमतिवेलमात्थ
भूयोपि दुःखं मम भीमसेन दूये विषस्येव रसं हि पीत्वा। यद्याज्ञसेनीं परिक्लिश्यमानां संदृश्य तत्क्षान्तमिति स्म भीम
न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये। कालं प्रतीक्षस्व सुखोदयाय पाकं फलानामिव बीजवापः
यदा हि पूर्वं निकृतोनिकृन्ते- द्वैरं सपुष्पं सफलं विदित्वा। महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके
श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः सन्नमन्ते। मित्राणि चैनमतिरागाद्भजन्ते देवा इवेनद्रमुपजीवन्ति चैनम्
मम प्रतिज्ञां च निबोध सत्यां वृणे सत्यममृतीज्जीविताच्च। राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति
सन्धिं कृत्वैव कालेन ह्यन्तकेन पतत्रिणा। अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः। फेनधर्मा महाराज फलधर्मा तथैव च
निमेषादपि कौन्तेय यस्यायुरपचीयते। सूच्येवाञ्जनचूर्णानि किमिति प्रतिपालयेत्
यो नूनममितायुः स्यादथवाऽऽयुःप्रमाणवित्। स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान्
प्रतीक्ष्यमाणः कालो नः समा राजंस्त्रयोदश। आयुषोपचयं कृत्वा मरणायोपनेष्यति
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्। प्रागेव मरणात्तस्माद्राज्यायैव घटामहे
यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः। अयातयित्वा वैराणि सोऽवसीदति गौरिव