पौरजानपदाः सर्वे प्रायशः कुरुनन्दन। सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा। सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा
इतिलोके निर्वचनं पुरश्चरति भारत। अपि चैताः स्त्रियो बालाः स्वाध्यायमधिकुर्वते
इमामवस्थां च गते सहास्माभिररिंदम्। हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति
स भवान्रथमास्थाय सर्वोपकरणान्वितम्। त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्। अस्त्रविद्भिः परिवृतोभ्रातृभिर्दृढधन्विभिः
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा। अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा। श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम्। स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत्
न स वीरो न मातङ्गो न च सोऽश्वोस्ति भारत। यः सहेत गदावेगं मम क्रुद्धस्य संयुगे
सृञ्जयैः सहकैकेयैर्वृष्णीनां वृषभेण च। कथंस्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे
शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम्। इह यत्नमुपाहृत्य बलेन महताऽन्वितः
स एवमुक्तस्तु महानुभावः सत्यव्रतो भीमसेनेन राजा। अजातशत्रुस्तदनन्तरं वै धैर्यान्वितो वाक्यमिदं बभाषे
असंशयं भारत सत्यमेत- द्यन्मां तुदन्वाक्यशल्यैः क्षिणोषि। न त्वां विगर्हे प्रतिकूलमेत- न्ममानयाद्धि व्यसनं व आगात्
अहं ह्यक्षानन्वपद्यं जिहीर्षन् राज्यंसराष्ट्रं धृतराष्ट्रस्य पुत्रात्। तन्मां शठः कितव प्रत्यदेवी- त्सुयोधनार्थं सुबलस्य पुत्रः
महामायः शकुनिः पार्वतीयः सभामध्ये प्रवपन्नक्षपूगान्। अमायिनं मायया प्रत्यजैषी- त्ततोऽपश्यं वृजिनं भीमसेन
अक्षांश्च दृष्ट्वा शकुनेर्यथावत् कामानुकूलानयुजो युजश्च। शक्यो नियन्तुमभविष्यदात्मा मन्युस्तु हन्यात्पुरुषस्य धैर्यम्
यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः। न ते वाचो भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत्
स नो राजा धृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन्। दास्यं च नोऽगमयद्भीमसेन यत्राभवच्छरणं द्रौपदी नः
त्वं चापि तद्वेत्थ धनंजयश्च पुनर्द्यूतायागतास्तां सभां नः। यन्माऽब्हवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम्
वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो। अथापरं चाविदितश्चरेथाः सर्वैः सह भ्रातृभिश्छद्मरूपः
त्वां चेच्छ्रुत्वा तात तथा चरन्त- मवभोत्स्यन्ते भारतानां चराश्च। अन्यांश्चरेथास्तावतोऽब्दांस्तथात्वं निश्चित्य तत्प्रतिजानीहि पार्थ
चरैश्चेन्नो विदितः कालमेतं युक्तो राजन्मोहयित्वा मदीयान्। ब्रवीमि सत्यं कुरुसंसदीह तवैव ता भारत पञ्च नद्यः
वयं चैतद्भारत सर्व एव त्वया जिताः कालमपास्य भोगान्। चरेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति
तत्र द्यूतमभवन्नो जघन्यं यस्मिञ्जिताः प्रव्रजिताश् सर्वे। इत्थं तु देशाननुसंचरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः
सुयोधनश्चापि न शान्तिमिच्छत् भूयः स मन्योर्वशमन्वगच्छत्। उद्योजयामास कुरूंश्च सर्वान् येचास्य केचिद्वशमन्वगच्छन्
तां सिद्धिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः। आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशासेत्
तदैव चेद्वीरकर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः। बाहू दिधक्षन्वारितः फल्गुनेन किं दुष्कृतंभीम तदाऽभविष्यत्
प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानः। प्राप्तं तु कालं त्वभिपद्यपश्चात् किं मामिदानीमतिवेलमात्थ
भूयोपि दुःखं मम भीमसेन दूये विषस्येव रसं हि पीत्वा। यद्याज्ञसेनीं परिक्लिश्यमानां संदृश्य तत्क्षान्तमिति स्म भीम
न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये। कालं प्रतीक्षस्व सुखोदयाय पाकं फलानामिव बीजवापः