भ्रातर पूर्वजाताश्च सुसमृद्धाश्च सर्वशः। निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ
एवं बलवतः सर्वमिति बुद्ध्वा महीपते। जहि शत्रून्महाबाहो परां निकृतिमास्थितान्
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः। भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः
सत्वेन कुरुते युद्धं राजन्सुबलवानपि। न प्रमाणेन नोत्साहात्सत्वस्थो भव पाण्डव
सत्वं हि मूलमर्थस् यवितथं यदतोऽन्यथा। न तु प्रसक्तं भवति वृक्षच्छायेन हैमनी
अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता। बीजौपम्यन कौन्तेय मा ते भूदत्र संशयः
अर्थेन तु समोऽनर्थो यत्र लब्धो महोदयः। न तत्र विपणः कार्यः खरकण्डूयनं हि तत्
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाऽल्पकं नरः। बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम्
अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डितः
सत्वेन कुरुते युद्धं राजन्सुबलवानपि। नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः
सर्वथा संहतैरेव दुर्बलैर्बलवानपि। अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः। हन्ति चैव तथैव त्वं सदृशः सवितुर्भव
एतच्चापि तपो पाजन्पुराणमिति नः श्रुतम्। विधिना पालनं भूमेर्यत्कृतं नः पितामहैः
न तथा तपसा राजँल्लोकान्प्राप्नोति क्षत्रियः। यथा सृष्टेन युद्धेन विजयेनेतरेण वा
अपेयात्किल भा सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा। इतिलोको व्यवसितो दृष्ट्वेमां भवतोव्यथाम्
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च। कथयन्त्यः परिषदः पृथग्राजन्समागताः
इदमभ्यधिकं राजन्ब्राह्मणाः कुरवश्च ते। समेताः कथयन्तीह मुदिताः सत्यसन्धताम्
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि। अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात्
यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन्। सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः। मुच्यते वीर पापेभ्यस्तमोभ्य इव चन्द्रमाः
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन। सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा। सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा
इतिलोके निर्वचनं पुरश्चरति भारत। अपि चैताः स्त्रियो बालाः स्वाध्यायमधिकुर्वते
इमामवस्थां च गते सहास्माभिररिंदम्। हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति
स भवान्रथमास्थाय सर्वोपकरणान्वितम्। त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्। अस्त्रविद्भिः परिवृतोभ्रातृभिर्दृढधन्विभिः
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा। अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा। श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम्। स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत्
न स वीरो न मातङ्गो न च सोऽश्वोस्ति भारत। यः सहेत गदावेगं मम क्रुद्धस्य संयुगे
सृञ्जयैः सहकैकेयैर्वृष्णीनां वृषभेण च। कथंस्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे