सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः। इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते। स कामश्चित्तसंकल्पः शरीरं नास्य दृश्यते
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति। अर्थमिच्छति कामार्थीन कामादन्यमिच्छति
न हि कामेन कामोऽन्यः सिध्यते फलमेव तत्। उषयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितः
इमाञ्शकुनकान्राजन्हन्ति वैतंसिको यथा। एतद्रूपमधर्मस्य भूतेषु च विहिंसनम्
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्ति। स वध्यः सर्वभूतानां प्रेत्य चेहैच दुर्मतिः
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः। प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम्
तस्य नाशं विनाशं वा जरया मरणेन वा। अनर्थ इति मन्यन्ते सोयमस्मासु वर्तते
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च। विपये वर्तमानानां या प्रीतिरुपजायते
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्। एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च
न धर्मपर एव स्यान्न चार्थपरमो नरः। न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा
धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत्। अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः
कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत्। वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः
धर्मं चार्थं च कामं च यथावद्वदतांवर। विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम्। प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन
तद्वाऽऽशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम्। जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः
विदितश्चैव मे धर्मः सततं चरितश्च ते। जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम्
एष नार्थविहीनेन शक्यो राजन्निपेवितुम्। अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीनरे
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते। धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम्
न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित्। वेत्तुं शक्यस्तथा राजन्केवलं धर्मबुद्धिना
प्रतिष्द्धा हि ते याच्ञा यया सिध्यति वै द्विजः। तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ
भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका। क्षत्रियस् विशेषेण धर्मस्तु बलमौरसम्
स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान्। धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः। उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान्। क्रूरकर्माऽभिजातोसि यस्मादुद्विजते जनः
प्रजापालनसंभूतं फलं तव न गर्हितम्। एष ते विहितो राजन्धात्रा धर्मः सनातनः
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि। स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः। वीर्यमास्थाय कौरव्य धुरमुद्वह धुर्यवत्
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन। पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम्
जिह्वां दत्ता बहूनां हि क्षुद्राणां लुब्धचेतसाम्। निकृत्या लभते राज्यमाहारमिव शल्यकः