सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम्। काङ्खतां विषुलां कीर्ति वैरं प्रतिचिकीर्षताम्
आत्मार्थं युध्यमानानां जीविते कृत्यलक्षणे। अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा
कर्शनार्थो हि यो धर्मो विप्राणामात्मनस्तथा। व्यसनं नाम तद्राजन्न धर्मः स कुवर्त्मतत्
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम्। जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा
यस्य धर्मो हि धर्मार्थँ क्लेशभाङ्ग स पण्डितः। न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव
यस्य चार्थार्थ एवार्थः स च नार्थस्य कोविदः। रक्ष्यते भृतकः पुण्यं यथा स्यात्तादृगेव सः
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति। स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः
सततं यश्च कामार्थी नेतरावनुतिष्ठति। मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्। कामतो रममाणस्य मीनस्येवाम्भसः क्षये
तस्माद्धर्मार्थयोर्नित्यं न प्रमान्द्यन्ति पण्डिताः। प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः। इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते। स कामश्चित्तसंकल्पः शरीरं नास्य दृश्यते
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति। अर्थमिच्छति कामार्थीन कामादन्यमिच्छति
न हि कामेन कामोऽन्यः सिध्यते फलमेव तत्। उषयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितः
इमाञ्शकुनकान्राजन्हन्ति वैतंसिको यथा। एतद्रूपमधर्मस्य भूतेषु च विहिंसनम्
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्ति। स वध्यः सर्वभूतानां प्रेत्य चेहैच दुर्मतिः
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः। प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम्
तस्य नाशं विनाशं वा जरया मरणेन वा। अनर्थ इति मन्यन्ते सोयमस्मासु वर्तते
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च। विपये वर्तमानानां या प्रीतिरुपजायते
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्। एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च
न धर्मपर एव स्यान्न चार्थपरमो नरः। न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा
धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत्। अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः
कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत्। वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः
धर्मं चार्थं च कामं च यथावद्वदतांवर। विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम्। प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन
तद्वाऽऽशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम्। जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः
विदितश्चैव मे धर्मः सततं चरितश्च ते। जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम्
एष नार्थविहीनेन शक्यो राजन्निपेवितुम्। अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीनरे
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते। धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम्
न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित्। वेत्तुं शक्यस्तथा राजन्केवलं धर्मबुद्धिना