स देवं परमासीनं सर्वभूतहिते रतम्। ब्रह्माणमुपतस्थे वै काले काले सुंसयतः
सतेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्। सख्योक्तः क्रीडमानेन स तत्र हसता किल
संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः। उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत्। ऋषिपुत्रेण नर्मार्थे कृशेन द्विजसत्तम
तेजस्विनस्तव पिता तथैव च तपस्विनः। शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव
व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वद। अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः। दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा
पित्रा च तव तत्कर्म नानुरूपमिवात्मनः। कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः। मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना
स त कृशमक्षिप्रेक्ष्य सूनृतां वाचमुत्सृजन्। अपृच्छत्तं कथं तातः `सर्वभूतहिते रतः
अनन्यचेताः सततं विष्णुं दवेमतोषयत्। वन्यान्नभोजी सततं मुनिर्मौनव्रते स्थितः। एवंभूतः स तेजस्वी' स मेऽद्य मृतधारकः
राज्ञा परिक्षिता तात मृगयां परिधावता। अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः। ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम्
स राजा मृगयां यातः परिक्षिदभिमन्युजः। ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम्
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने। पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम्
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः। पुनःपुनर्मृगं नष्टं प्रपच्छ पितरं तव
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत। तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासजत्
शृङ्गिंस्तव पिता सोऽपि तथैवास्ते यतव्रतः। सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम्
श्रुत्वैवमृषिपुत्रस्तु शवं स्कन्धे प्रतिष्ठितम्। कोपसंरक्तनयनः प्रज्वलन्निव मन्युना
आविष्टः स हि कोपेन शशाप नृपतिं तदा। वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह। स्कन्धे मृतं समास्राक्षीत्पन्नगं राजकिल्विषी
तं पापमतिसंक्रुद्धस्तक्षकः पन्नगेश्वरः। आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः
सप्तरात्रादितो नेता यमस्य सदनं प्रति। द्विजानामवमन्तारं कुरूणामयशस्करम्
इति शप्त्वातिसंक्रुद्धः शृङ्गी पितरमभ्यगात्। आसीनं ग्रोव्रजे तस्मिन्वहन्तं शवपन्नगम्
स तमलक्ष्य पितरं शृङ्गी स्कन्धगतेन वै। शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्। श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना
राज्ञा परिक्षिता कोपादशपं तमहं नृपम्। यथार्हति स एवोग्रं शापं कुरुकुलाधमः। सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्
न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम्। वयं तस्य नरेन्द्रस्य विषये निवसामहे
न्यायतो रक्षितास्तेन तस्य पापं न रोचये। सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः। यदि राजा न संरक्षेत्पीडा नः परमा भवेत्