गुणाभावे फलं न्यूनं भवत्यफलमेव च। अनारम्भे हि न फलं न गुणो दृश्यते क्वचित्
देशकालावुपायांश्च मङ्गलं स्वस्तिसिद्धये। युनक्ति मेधया धीरो यथायोगं यथाबलम्
अप्युपायेन तत्कार्यमुपदेष्टा पराक्रमः। भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः
यत्रधीमानवेक्षेत श्रेयासं बहुभिर्गुणैः। साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत्
व्यसनं नाभिकाङ्क्षेत्त विनाशं वा युधिष्ठिर। अपि सिन्धोर्गिरेर्वाऽपि किं पुनर्मर्त्यधर्मिणः
उत्थानयुक्तः सततं परेषामन्तरैषणे। आनृण्यमाप्नोति नरः परस्यात्मन एव च
न त्वेवात्माऽवमन्तव्यः पुरुषेण कदाचन। न ह्यात्मपरिभूतस् भूतिर्भवति शोभना
एवं संस्थितिका सिद्धिरियं लोकस्य भारत। चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागशः
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम्। सर्वं चार्थमिमं प्राह पित्रे मे भरतर्षभ
नीतिं बृहस्पतिप्रोक्तां भ्रातृन्मेऽग्राहयन्पुरा। तेषां सकाशादश्रौषमहमेतां तदा गृहे
स मां राजन्कर्मवतीमागतामाह सान्त्वयन्। शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर
अन्येषां कर्म सफलमस्माकमपि वा पुनः। विप्रकर्षेण बुद्ध्येत कृतकर्मा यथा फलम्
याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः। निश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत्
राजन्सत्पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्। धर्मकामार्थहीनानां किं नो वस्तुं तपोवने
नैव धर्मेण तद्राज्यं नार्जवेण न चौजसा। अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै
गोमायुनेव सिंहानां दिर्बलेन बलीयसाम्। आमिपं विघसाशेन तद्वद्राज्यं हि नो हृतम्
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः। अर्थमुत्सृज्य किं राजन्दुःखेन परितप्यसे
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्। अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः। हृतमैश्वर्यमस्माकं जीवतां भवतः कृते
भवतः प्रियमित्येवं महद्व्यसनमीदृशम्। धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्। आत्मानं भवतः शास्त्रैर्नियम्य भरतर्षभ
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्म हि। भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम्
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः। अवीराचरितां राजन्नबलस्थैर्निषेविताम्
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः। न चाहमभिनन्दामि न च माद्रीसुतावुभौ
भवान्धर्मो धर्म इति सततं व्रतकर्शितः। कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम्
दुर्मनुष्या हि निर्वेदमफलं सर्वघातकम्। अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम्
स भवान्दृष्टिमाञ्शक्तः पश्यन्नस्मासु पौरुषम्। आनृशंस्यपरो राजन्नात्मार्थमवबुध्यसे
अस्मानमी धार्तराष्ट्राः क्षममाणानहिंसतः। अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः
तत्रचेद्युध्यमानानामजिह्ममनिवर्तिनाम्। सर्वशो हि वधः श्रेयान्प्रेत्य लोकांल्लभेमहि
अधवा वयमेवैतान्निहत्य भरतर्षभ। आददीमहि गां सर्वां तथापि श्रेय एव नः