असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते। कृतेकर्मणि राजेन्द्र तथाऽनृण्यमवाप्नुते
अलक्ष्मीराविशत्येनं शयानमलसं नरम्। निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते
अनर्थं संशयावस्थं गृणन्त्यामुक्तसशंयाः। धीरा नराः कर्मरता न तु निःसंशयाः क्वचित्
एकान्ते नह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतम्। स तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते
अथवाऽसिद्धिरेव स्यान्महिमा तु तदेव ते। वृकोदरस्य बीभत्सोर्भात्रोश्च यमयोरपि
पृथिवीं लाङ्गलेनेह कृष्ट्वा बीजं वपत्युत। आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम्
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः। यदन्यः पुरुषः कुर्यात्तत्कृतं सफलं मया
तच्चेदं फलमस्माकमपराधो न मे क्वचित्। इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्रगर्हयेत्
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत। निर्वेदो नात्र गन्तव्यो द्वावन्तौ यस्य कर्मणः
सिद्धिर्वाऽप्यथवाऽसिद्धिरप्रवृत्तिरतोऽन्यथा। बहूनां समवाये हि भावानां कर्म सिध्यति
गुणाभावे फलं न्यूनं भवत्यफलमेव च। अनारम्भे हि न फलं न गुणो दृश्यते क्वचित्
देशकालावुपायांश्च मङ्गलं स्वस्तिसिद्धये। युनक्ति मेधया धीरो यथायोगं यथाबलम्
अप्युपायेन तत्कार्यमुपदेष्टा पराक्रमः। भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः
यत्रधीमानवेक्षेत श्रेयासं बहुभिर्गुणैः। साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत्
व्यसनं नाभिकाङ्क्षेत्त विनाशं वा युधिष्ठिर। अपि सिन्धोर्गिरेर्वाऽपि किं पुनर्मर्त्यधर्मिणः
उत्थानयुक्तः सततं परेषामन्तरैषणे। आनृण्यमाप्नोति नरः परस्यात्मन एव च
न त्वेवात्माऽवमन्तव्यः पुरुषेण कदाचन। न ह्यात्मपरिभूतस् भूतिर्भवति शोभना
एवं संस्थितिका सिद्धिरियं लोकस्य भारत। चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागशः
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम्। सर्वं चार्थमिमं प्राह पित्रे मे भरतर्षभ
नीतिं बृहस्पतिप्रोक्तां भ्रातृन्मेऽग्राहयन्पुरा। तेषां सकाशादश्रौषमहमेतां तदा गृहे
स मां राजन्कर्मवतीमागतामाह सान्त्वयन्। शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर
अन्येषां कर्म सफलमस्माकमपि वा पुनः। विप्रकर्षेण बुद्ध्येत कृतकर्मा यथा फलम्
याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः। निश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत्
राजन्सत्पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्। धर्मकामार्थहीनानां किं नो वस्तुं तपोवने
नैव धर्मेण तद्राज्यं नार्जवेण न चौजसा। अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै
गोमायुनेव सिंहानां दिर्बलेन बलीयसाम्। आमिपं विघसाशेन तद्वद्राज्यं हि नो हृतम्
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः। अर्थमुत्सृज्य किं राजन्दुःखेन परितप्यसे
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्। अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः। हृतमैश्वर्यमस्माकं जीवतां भवतः कृते
भवतः प्रियमित्येवं महद्व्यसनमीदृशम्। धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत