उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि। [तथा ह्येता न वर्धेरन्कर्म चेदफलं भवेत् ।।]
दृष्ट्वाऽपिच फलं कर्म पश्यामः कुर्वतो जनान्। नान्यथा ह्यपि जानन्ति वृत्तिं लोकाः कथंचन
यश्च दिष्टपरो लोके यश्चापि हठवादकः। उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते
यो हि दिष्टमुपासीत निर्विचेष्टः सुखं स्वपन्। अवसीदेत्सुदुर्बुद्धिरामो घट इवोदके
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत्। आसीत न चिरं जीवेदनाथ इव दुर्बलः
अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः। तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित्
वश्चापि कश्रित्पुरुषो दिष्टं नाम भजत्युत। दैवेन विधिना पार्थ तद्दैवमिति निश्चितम्
यत्तावस्कर्मणा किंचित्फलमाप्नोति पूरुषः। प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति श्रुतम्
स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात्। तत्स्वभावात्प्रकं विद्धि फलं पुरुषसत्तम
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा। यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणाम्
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः। विदधाति विभज्येह फलं पूर्वकतं नृणाम्
यद्धि यः पुरुषः किंचित्कुरुते वै शुभाशुभम्। तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम्
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि। स यथा प्रेरयत्येनं तथाऽयं कुरुतेऽवशः
तेषुतेषु हि कृत्येषु विनियोक्ता महेश्वरः। सर्वभूतानि कौन्तेय कारयत्यवशान्यपि
मनसाऽर्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा। बुद्धिपूर्वं स्वयं वीर पुरुषस्तत्र कारणम्
संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ। अगारनगराणां हि सिद्धिः पुरुषहैतुकी
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः। एवं धीरो विजानीयादुपायं चास्य सिद्धये
ततः प्रवर्तते पश्चात्कारणेष्वस्व सिद्धये। तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः
कुशलेन कृतं कर्म कर्त्रा साधु स्वनुष्ठितम्। इदं त्वकुशलेनेति विशेषादुपलभ्यते
इष्टापूर्त्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्। पुरुषः कर्मसाध्येषु स्वाच्चेदयमकारणम्
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते। असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह
सर्वमेव हठेनैके दैवेनैके वदन्त्युत। पुंसः प्रयत्नजं केचिद्दैवमेतद्विशिष्यते
न चैवैतावता कार्यं मन्यन्त इति चापरे। अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः
दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः। किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मतः
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्। कुशलाः प्रतिजानन्ति ये वै तत्त्वविदोजनाः
तथैव धाता भूतानामिष्टानिष्टफलप्रदः। यदि न स्वानन भूतानां कृपणो नाम कश्चन
यंयमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः। तत्तत्सफलमेव स्याद्यदि न स्यात्पुरा कृतम्
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः। तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते
कर्तव्यमेव कर्मेति मनोरेष विनिश्चयः। एकान्तेन ह्यनीहोऽयं वर्ततेऽस्मासु संप्रति
कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर। एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित्