एतावदेव पर्याप्तमुपमानं शुचिस्मिते। कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति
बहुनाऽपि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः। तेषां न ध्मजं किंचित्प्रेत्य कर्मास्ति शर्म वा
कर्मणामुत पुण्यानां पापानां च फलोदयः। प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः। [अपि कल्पसहस्रेण न च श्रेयोऽधिगच्छति ।।]
रक्ष्याण्येतानि देवानां गूढमाया हि देवताः। कृशाङ्गाः सुब्रताश्चैव तपसा दग्धकिल्विषाः। प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः
न फलादर्सनाद्धर्मः शङ्कितव्यो न देवताः। यष्टव्यं च प्रयत्नेन दातव्यं चानमूयता
कर्मणां फलमस्तीह तथैतद्धर्मशासनम्। ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद काश्यपः
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु। विमृश्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज
ईश्वरं चापि भूतानां धातारं मा च वै क्षिप। शिक्षस्वैनं नमस्वैनं मा तेऽभूद्बुद्धिरीदृशी
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम्। उत्तमां देवतां कृष्णे मातिवोचः कथंचन
नावमन्ये न गर्हे च धर्मं पार्थ कथंचन। ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम्
आर्ताऽहं प्रलपामीदमिति मां विद्धि भारत। भूयश्च विलपिष्यामि सुमनास्त्वं निबोध मे
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन। अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः
आमातृस्तन्यपानाच्च यावच्छय्योपसर्पणम्। जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ। इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च
उत्थानमभिजानन्ति सर्वभूतानि भारत। प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम्
पश्यन्तः स्वं समुत्थानमुपजीवन्ति जन्तरः। अपि धाता विधाता च यथाऽयमुदके बकः
[अकर्मणां वै भूतानां वृत्तिः स्वान्न हि काचन। तदेवाभिप्रपद्येत न विहन्यात्कदाचन ।।]
स्वकर्म कुरु माहासीः कर्मणा भव दंशितः। कृत्यं हि योऽभिजानाति सहस्रे सोस्ति नास्ति वां
तस्य चापि भवेत्कार्वं विवृद्धौ रक्षणे तथा। भक्ष्यमाणो द्यनावाषः क्षीयेत हिमवानपि
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि। [तथा ह्येता न वर्धेरन्कर्म चेदफलं भवेत् ।।]
दृष्ट्वाऽपिच फलं कर्म पश्यामः कुर्वतो जनान्। नान्यथा ह्यपि जानन्ति वृत्तिं लोकाः कथंचन
यश्च दिष्टपरो लोके यश्चापि हठवादकः। उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते
यो हि दिष्टमुपासीत निर्विचेष्टः सुखं स्वपन्। अवसीदेत्सुदुर्बुद्धिरामो घट इवोदके
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत्। आसीत न चिरं जीवेदनाथ इव दुर्बलः
अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः। तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित्
वश्चापि कश्रित्पुरुषो दिष्टं नाम भजत्युत। दैवेन विधिना पार्थ तद्दैवमिति निश्चितम्
यत्तावस्कर्मणा किंचित्फलमाप्नोति पूरुषः। प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति श्रुतम्
स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात्। तत्स्वभावात्प्रकं विद्धि फलं पुरुषसत्तम
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा। यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणाम्