प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान्। शापानुग्रहणे शक्तान्देवेभ्योऽपि गरीयसः
एते हि धर्ममेवादौ वर्णयन्ति सदाऽनधे। कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः
अतो नार्हसि कल्याणि धातारं धर्ममेव च। रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च
उन्मत्तान्मन्यते बालः सर्वानागतनिश्चयान्। धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति
इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम्। एतावन्मन्यते बालो मोहमन्यत्र गच्छति
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते। ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते
प्रमाणाद्धि निवृत्तो हि वेदशास्त्रार्थनिन्दकः। कामलोभानुगो मूढो नरकं प्रतिपद्यते
आर्षं प्रमाणमुत्क्राम्य धर्मं न प्रतिपालयन्। सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते। अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते
यस्य नार्षं प्रमाणं स्याच्छिष्टाचारश्च भामिनि। न वै तस्य परो लोको नायमस्तीति निश्चयः
शिष्टैराचरितं धर्मं कृष्णे मास्मातिशङ्कथाः। पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम्। सैवः नौः सागरस्येव वणिजः पारमिच्छतः
अफलो यदि धर्मः स्याच्चरितो धर्मचारिभिः। अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम्। विघातेनैव युज्येयुर्न चार्थं कंचिदाप्नुयुः
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च। दानमार्जवमेतानि यदि स्युरफलानि वै
नाचरिष्यन्परे धर्मं परे परतरेऽपि च। दानमार्जवमेतानि यदि स्युरफलानि वै
ऋषयस्चैव देवाश्च गन्धर्वासुरराक्षसाः। ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः
फलदं त्विह विज्ञाय धातारं श्रेयसि स्थितम्। धर्मं तेऽव्यचरन्कृष्णे स हि धर्म सनातनः
स चायं सफलो धर्मो न धर्मोऽफल उच्यते। दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथाश्रुतम्। वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान्
एतावदेव पर्याप्तमुपमानं शुचिस्मिते। कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति
बहुनाऽपि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः। तेषां न ध्मजं किंचित्प्रेत्य कर्मास्ति शर्म वा
कर्मणामुत पुण्यानां पापानां च फलोदयः। प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः। [अपि कल्पसहस्रेण न च श्रेयोऽधिगच्छति ।।]
रक्ष्याण्येतानि देवानां गूढमाया हि देवताः। कृशाङ्गाः सुब्रताश्चैव तपसा दग्धकिल्विषाः। प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः
न फलादर्सनाद्धर्मः शङ्कितव्यो न देवताः। यष्टव्यं च प्रयत्नेन दातव्यं चानमूयता
कर्मणां फलमस्तीह तथैतद्धर्मशासनम्। ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद काश्यपः
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु। विमृश्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज
ईश्वरं चापि भूतानां धातारं मा च वै क्षिप। शिक्षस्वैनं नमस्वैनं मा तेऽभूद्बुद्धिरीदृशी
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम्। उत्तमां देवतां कृष्णे मातिवोचः कथंचन