परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः। दूरं चापहृतस्तेन मृगेण स महीपतिः
परिश्रान्तः पिपासार्त आससाद मुनिं वने। गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः। तमभिद्रुत्य वेगेन स राजा संशितव्रतम्
अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः। भोभो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः
मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि। स मुनिस्तं तु नोवाच किंचिन्मौनव्रते स्थितः
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत्। समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत
न स किंचिदुवाचैनं शुभं वा यदि वाऽशुभम्। स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्। दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः
न हि तं राजशार्दूलं क्षमाशीलो महामुनिः। स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत्
न हि तं राजशार्दूलस्तथा धर्मपरायणम्। जानाति भरतश्रेष्ठस्तत एनमधर्षयत्
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः। शृङ्गी नाम महाक्रोधो दुष्पसादोमहाव्रतः
स देवं परमासीनं सर्वभूतहिते रतम्। ब्रह्माणमुपतस्थे वै काले काले सुंसयतः
सतेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्। सख्योक्तः क्रीडमानेन स तत्र हसता किल
संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः। उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत्। ऋषिपुत्रेण नर्मार्थे कृशेन द्विजसत्तम
तेजस्विनस्तव पिता तथैव च तपस्विनः। शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव
व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वद। अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः। दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा
पित्रा च तव तत्कर्म नानुरूपमिवात्मनः। कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः। मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना
स त कृशमक्षिप्रेक्ष्य सूनृतां वाचमुत्सृजन्। अपृच्छत्तं कथं तातः `सर्वभूतहिते रतः
अनन्यचेताः सततं विष्णुं दवेमतोषयत्। वन्यान्नभोजी सततं मुनिर्मौनव्रते स्थितः। एवंभूतः स तेजस्वी' स मेऽद्य मृतधारकः
राज्ञा परिक्षिता तात मृगयां परिधावता। अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः। ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम्
स राजा मृगयां यातः परिक्षिदभिमन्युजः। ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम्
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने। पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम्
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः। पुनःपुनर्मृगं नष्टं प्रपच्छ पितरं तव
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत। तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासजत्
शृङ्गिंस्तव पिता सोऽपि तथैवास्ते यतव्रतः। सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम्
श्रुत्वैवमृषिपुत्रस्तु शवं स्कन्धे प्रतिष्ठितम्। कोपसंरक्तनयनः प्रज्वलन्निव मन्युना
आविष्टः स हि कोपेन शशाप नृपतिं तदा। वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह। स्कन्धे मृतं समास्राक्षीत्पन्नगं राजकिल्विषी