मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः। धातुरादेशमन्वेति तन्मयो हि तदर्पणः
नात्माथीनो मनुष्योऽयं कालं भजतिं कंचन। स्रोतसो मध्यमापन्नः कूलवृक्ष इव च्युतः
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः। धातुरेवं वशं यान्ति सर्वभूतानि भारत
आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वः। व्याप्य भूतानि चरते न चायमिति लक्ष्यते
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम्। येन कारयते कर्म शुभाशुभफलं विभुः
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः। यो हन्ति भूतैर्भूतानि मोहयित्वाऽऽत्ममायया
अन्यथा परिदृष्टानि मुनिभिस्तत्त्वदर्शिभिः। अन्यथा परिवर्तन्ते वेगा इव नभस्वतः
अन्यथैव हि वर्तन्ते पुरुषास्तानि तानि च। अन्यथैव प्रभुस्तानि करोति विकरोति च
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः। अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम्
एवं स भगवान्देवः स्वयंभूः प्रपितामहः। निहन्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर
संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः। क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव
न मातृपितृवद्राजन्धाता भूतेषु वर्तते। रोषादिव प्रवृत्तो।़यं यथाऽयमितरो जनः
आर्याञ्शीलवो दृष्ट्वा हीमतो वृत्तिकर्शितान्। अनार्यान्सुखिनश्चैव विह्वलानिव चिन्तये
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने। धातारं गर्हये पार्थ विषमं योऽनुपश्यति
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि। धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते
कर्मचेत्कृतमन्वेति कर्तारं नान्यमृच्छति। कर्मणा तेन पापेन लिप्यते नूनमीश्वरः
अथ कर्मकृतं पापं न चेत्कर्तारमृच्छति। कारणं बलमेवेह जनाञ्शोचामि दुर्बलान्
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः। उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे
नाहं धर्मफलाकाङ्क्षी राजपुत्रि चराम्भुत। ददामि देयमित्येव यजे यष्टव्यमित्युत
अस्तु वाऽत्र फलं मा वा कर्तव्यं पुरुषेण यत्। गृहे निवसता कृष्णे यथाशक्ति करोमि तत्
धर्मं चरामि सुश्रोणि न धर्मफलकारणात्। आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च
धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम्। [धर्मवाणिज्यको हीनो जघन्यो धर्मवादिनाम्]
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति। यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः
अतिवादान्मदाच्चैव मा धर्ममभिशङ्कथाः। धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः। वेदाच्छूद्र इवापेयात्स लोकादजरामरात्
वेदाध्यायी धर्मपरः कुले जातो मनस्विनि। स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः
पापीयान्स हि शूद्रेभ्यस्तस्करेभ्यो विशिष्यते। शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः। मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविता
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः। अन्ये च ऋषयः सर्वे धर्मेणैव सुचेतसः