अस्मिन्नपि महारण्ये विजने दस्युसेविते। राष्ट्रादपेत्य वसतो धर्मस्ते नावसीदति
अश्वमेधो राजसूयः पौण्डरीकोऽथ गोसवः। इष्टास्त्वया महायज्ञाबहवोऽन्ये सदक्षिणाः
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये। पार्थ मित्राणि चास्मांश्च वसूनि च पराजितः
ऋजोर्मृदोर्बदान्यस्य धीमतः सत्यवादिनः। कथमक्षव्यसनजा बुद्धिरापतिता तव
अतीव मोह आयाति मनश् परिदूयते। निशाम्य व्यसनं पार्थ तवेदमतिदुःसहम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये। ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्
यथा दारुमयीं योषां नरो धीरः समाहितः। इङ्ग्यत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः
आकाश इव भूतानि व्याप्य सर्वाणि भारत। ईश्वरो विदधातीह कल्याणं यच्च पापकम्
शकुनिस्तन्तुबद्धो वा नीयतेऽयमनीश्वरः। ईश्वरस्य वशे तिष्ठन्नान्येषामात्मनः प्रभुः
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः। धातुरादेशमन्वेति तन्मयो हि तदर्पणः
नात्माथीनो मनुष्योऽयं कालं भजतिं कंचन। स्रोतसो मध्यमापन्नः कूलवृक्ष इव च्युतः
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः। धातुरेवं वशं यान्ति सर्वभूतानि भारत
आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वः। व्याप्य भूतानि चरते न चायमिति लक्ष्यते
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम्। येन कारयते कर्म शुभाशुभफलं विभुः
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः। यो हन्ति भूतैर्भूतानि मोहयित्वाऽऽत्ममायया
अन्यथा परिदृष्टानि मुनिभिस्तत्त्वदर्शिभिः। अन्यथा परिवर्तन्ते वेगा इव नभस्वतः
अन्यथैव हि वर्तन्ते पुरुषास्तानि तानि च। अन्यथैव प्रभुस्तानि करोति विकरोति च
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः। अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम्
एवं स भगवान्देवः स्वयंभूः प्रपितामहः। निहन्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर
संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः। क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव
न मातृपितृवद्राजन्धाता भूतेषु वर्तते। रोषादिव प्रवृत्तो।़यं यथाऽयमितरो जनः
आर्याञ्शीलवो दृष्ट्वा हीमतो वृत्तिकर्शितान्। अनार्यान्सुखिनश्चैव विह्वलानिव चिन्तये
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने। धातारं गर्हये पार्थ विषमं योऽनुपश्यति
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि। धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते
कर्मचेत्कृतमन्वेति कर्तारं नान्यमृच्छति। कर्मणा तेन पापेन लिप्यते नूनमीश्वरः
अथ कर्मकृतं पापं न चेत्कर्तारमृच्छति। कारणं बलमेवेह जनाञ्शोचामि दुर्बलान्
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः। उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे
नाहं धर्मफलाकाङ्क्षी राजपुत्रि चराम्भुत। ददामि देयमित्येव यजे यष्टव्यमित्युत