अति यज्ञविदां लोकान्क्षमिणः प्राप्नुवन्ति च। अति ब्रह्मविदां लोकानति चापि तपस्विनाम्
अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा। क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्। क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शभः
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत्। यत्रब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः
इज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा।' क्षन्तव्यमेव सततं पुरुषेण विजानता। यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा
क्षमावतामयं लोकः परश्चैव क्षमावताम्। इह सन्मानमृच्छन्ति परत्र च परा गतिम्
येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा। तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता
इति गीताः काश्यपेन गाथानित्यं क्षमावताम्। श्रुत्वा गाथाः क्षमायास्त्वं तुष्यद्रौपदि मा क्रुधः
पितामहः शान्तनवः रशमं संपूजयिष्यति। कृष्णश्च देवकीपुत्रः शमं संपूजयिष्यति
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः। कृपश्च संजयश्चैव शममेव वदिष्यतः
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च। पितामहश्च नो व्यासः शमं वदति नित्यशः
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति। राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति
कालोऽयं दारुणः प्राप्तो भरतानामभूतये। निश्चितं मे सदैवैतत्पुरस्तादपि भामिति
सुयोधनो नार्हतीति क्षमा मामेव विन्दति। अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा
एतदात्मवतां वृत्तमेष धर्मः सनातनः। क्षमा चैवानृशंस्यं च तत्कर्ताऽस्म्यहमञ्जसा
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव। पितृपैतामहे राज्ये वोढव्ये तेऽन्यथा मतिः
[कर्मभिश्चिन्तितो लोको गत्यांगत्यां पृथग्विधः। तस्मात्कर्माणि नित्यानि लोभान्मोक्षं यियासति ।]
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च। पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित्
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम्। स त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः
न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत। धर्मात्प्रियतरं किंचिदपि चेज्जीवितादपि
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते। ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः
भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह। त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः। इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति
त्यक्त्वाऽन्यान्हि नरव्याघ्र नित्यदा धर्म एव ते। बुद्धिः सततमन्वेति छायेवं पुरुषं निजा
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः। अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान्। देवताश्च पितॄंश्चैव सततं पार्थ सेवसे
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः। यतयो मोक्षिणश्चैव गृहस्ताश्चैव भारत
भुञ्जते रुक्मपात्रीभिर्यत्राहं परिचारिका। आरण्यकेभ्यो वन्यानि भोजनानि प्रयच्छसि। नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते
यदिदं वैश्वदेवान्ते सायं प्रातः प्रदीयते। तद्दत्त्वाऽतिथिभृत्येभ्योराजञ्शिष्टेनजीवसि
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये। वर्तन्ते पाकयज्ञाश्च सदा यज्ञाश्च तेऽनघ