हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन्। हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च
एवं संकुपिते लोके जन्म कृष्णो न विद्यते। प्रजानां सन्धिमूलं हि जन्म विद्धिशुभानने
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशाः। तस्मान्मन्युर्विनाशाय प्रजानामभवाय च
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः। तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते
क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने। क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम्
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बवीयसा। यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः। प्रभाववानपि नरस्तस्य लोकाः सनातनाः
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम्। गीताः क्षमावतां कृष्णे काश्यपेन महात्मना
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम्। यस्तमेवं विजानाति स सर्वं क्षन्तुर्महति
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च। क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत्
अति यज्ञविदां लोकान्क्षमिणः प्राप्नुवन्ति च। अति ब्रह्मविदां लोकानति चापि तपस्विनाम्
अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा। क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्। क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शभः
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत्। यत्रब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः
इज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा।' क्षन्तव्यमेव सततं पुरुषेण विजानता। यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा
क्षमावतामयं लोकः परश्चैव क्षमावताम्। इह सन्मानमृच्छन्ति परत्र च परा गतिम्
येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा। तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता
इति गीताः काश्यपेन गाथानित्यं क्षमावताम्। श्रुत्वा गाथाः क्षमायास्त्वं तुष्यद्रौपदि मा क्रुधः
पितामहः शान्तनवः रशमं संपूजयिष्यति। कृष्णश्च देवकीपुत्रः शमं संपूजयिष्यति
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः। कृपश्च संजयश्चैव शममेव वदिष्यतः
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च। पितामहश्च नो व्यासः शमं वदति नित्यशः
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति। राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति
कालोऽयं दारुणः प्राप्तो भरतानामभूतये। निश्चितं मे सदैवैतत्पुरस्तादपि भामिति
सुयोधनो नार्हतीति क्षमा मामेव विन्दति। अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा
एतदात्मवतां वृत्तमेष धर्मः सनातनः। क्षमा चैवानृशंस्यं च तत्कर्ताऽस्म्यहमञ्जसा
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव। पितृपैतामहे राज्ये वोढव्ये तेऽन्यथा मतिः
[कर्मभिश्चिन्तितो लोको गत्यांगत्यां पृथग्विधः। तस्मात्कर्माणि नित्यानि लोभान्मोक्षं यियासति ।]
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च। पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित्
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम्। स त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः
न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत। धर्मात्प्रियतरं किंचिदपि चेज्जीवितादपि