द्रौपद्या वचनं श्रुत्वा श्लक्ष्णाक्षरपदं शुभम्। उवाच द्रौपदीं राजा स्मयमानो युधिष्ठिरः
कारणे भवती क्रुद्धा धार्तराष्ट्रस्य दुर्मतेः। येन क्रोधं महाप्रज्ञे बहुधा बहुमन्यसे। क्रोधमूलं हरं शत्रुं कारणैः शृणु तं मम
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः। इति विद्धि महाप्रात्रे क्रोधमूलौ भवाभवौ
यो हि संहरते क्रोधं भावस्तस्य सुशोभने। `यो न संहरते क्रोधं तस्याभावो भवत्युत। अभावकारणं तस्मात्क्रोधो भवति शोभने
यः पुनः पुरुषः क्रोधं नित्यं विसृजते शुभे। तस्याभावाय भवति क्रोधः परमदारुणः
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते। तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि। क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्। नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा
हिंस्यात्क्रोधादवध्यांस्तु वध्यान्संपूजयीत च। आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम्
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः। इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम्
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्ररेत्। एतद्द्रौपदि संस्मृत्यन मे मन्युः प्रवर्धते
आत्मानं च परांश्चैव त्रायते महतो भयात्। क्रुध्यन्तमप्रतिक्रुध्यन्दूयोरेष चिकित्सकः
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः। बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः
तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः। तस्माद्द्रौपद्यशक्तस् मन्योर्नियमनं स्मृतम्
विद्वांस्तथैव यः शक्तः क्लिश्यमानः प्रकुप्यति। स नाशयित्वा द्वेष्टारं परलोके न नन्दति
तस्माद्बलवता चैव दुर्बलेन च नित्यदा। क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः। क्षमावतो जयो नित्यं साधोरिह सतां मतम्
सत्यंचानृततः श्रेयो नृशंसाच्चानृशंसता। तमेवं बहुदोषं त क्रोधं सद्भिर्विवर्जितम्। मादृशो विसृजेत्तस्मात्सर्वलोकविनाशनम्
तेजस्वीति यमाहुर्वै पण्डिता दीर्गदर्शिनः। न क्रोधोऽभ्यन्तरस्तस् भवतीति विनिश्चेतम्
वस्तु क्रोधं समुत्पन्नं प्रज्ञया परिबाधते। तेजस्विनं तं विदुषो मन्यन्ते तत्त्वदर्शिनः
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति। नाकार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि। तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः। गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते। कालयुक्तं महाप्राज्ञैः क्रुद्धैस्तेजः सुदुर्लभम्
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिनिश्चितम्। रजस्तु लोकनाशाय विहितं मानुषान्प्रति
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन्। श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम्
यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम्। अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते
यदि न स्युर्मानुषेषु क्षमिणः पृथिवीसमाः। न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः। एवं विनाशो भूतानाममधर्मः प्रथितो भवेत्
आक्रुष्ट पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम्। प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः