मित्रैः सह विरोधं च प्राप्नुते तेजसाऽऽवृतः। आप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा
सोऽवमानादर्थहानिमुपालम्भमनादरम्। संतापद्वेषमोहांश्च शत्रूंश्च लभते नरः
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषोऽनयात्। भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि
योपकर्तॄश्च हर्तॄश्च तेजसैवोपगच्छति। तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव
यस्मादुद्विजतेलोकः कथं तस्य भवो भवेत्। अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम्
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत्। कालेकाले तु संप्राप्ते मृदुस्तीक्ष्णोपि वा भवेत्
काले मृदुर्यो भवति काले भवति दारुणः। स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान्। ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः
पूर्वोपकारी यस्ते स्यादपराधे गरीयसि। उपकारेण तत्तस्य क्षन्तव्यमपराधिनः
अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनाम्। न हि सर्वत्र पाण्डित्वं सुलभं पुरुषेण वै
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम्। पापान्स्वल्पेऽपि तान्हन्यादपराधे तथाऽनृजून्
सर्वस्यैकोपराधस्ते क्षन्तव्यः प्राणिनो भवेत्। द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत्
अजानता भवेत्कश्चिदपराधः कृतो यदि। क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया
मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम्। नासाध्यं मृदुना किंचित्तस्मात्तीव्रतरं मृदु
देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः। अन्वीक्ष्यकारणं चैव कार्यं तेजः क्षमापि वा
नादेशकाले किंचित्स्याद्देशकालौ प्रतीक्षताम्। तथा लोकभयाच्चैव क्षन्तव्यमपराधितम्
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः। अतोऽन्यथाऽनुवर्तत्सु तेजसः काल उच्यते
तदहं तेजसः कालं तव मन्ये नराधिप। धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति। तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः। काले प्राप्ते द्वयं चैतद्यो वेद स महीपतिः
द्रौपद्या वचनं श्रुत्वा श्लक्ष्णाक्षरपदं शुभम्। उवाच द्रौपदीं राजा स्मयमानो युधिष्ठिरः
कारणे भवती क्रुद्धा धार्तराष्ट्रस्य दुर्मतेः। येन क्रोधं महाप्रज्ञे बहुधा बहुमन्यसे। क्रोधमूलं हरं शत्रुं कारणैः शृणु तं मम
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः। इति विद्धि महाप्रात्रे क्रोधमूलौ भवाभवौ
यो हि संहरते क्रोधं भावस्तस्य सुशोभने। `यो न संहरते क्रोधं तस्याभावो भवत्युत। अभावकारणं तस्मात्क्रोधो भवति शोभने
यः पुनः पुरुषः क्रोधं नित्यं विसृजते शुभे। तस्याभावाय भवति क्रोधः परमदारुणः
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते। तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि। क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्। नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा
हिंस्यात्क्रोधादवध्यांस्तु वध्यान्संपूजयीत च। आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम्
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः। इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम्