यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः। प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतप
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे। नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर। सहदेवं वने दृष्ट्वा कस्मात्क्षमसि पार्थिव
नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ। अदुःखार्हौ मनुष्येन्द्र कस्मान्मन्युर्न वर्धते
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः। धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम्। मां वै वनगतां दृष्ट्वा कस्मात्क्षमसि पार्थिव
नूनं च तव नैवास्ति मन्युर्भरतसत्तम। यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा नव्यथते मनः
न निर्मन्युःक्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्। तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत्
यो न दर्शयते तेजः क्षत्रियः काल आगते। सर्वभूतानि तं पार्थ सदा परिभवन्त्युत
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन। तेजसैव हि ते शक्या निहन्तुं नात्र संशयः
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति। अप्रियः सर्वभूतानां सोमुत्रेह च नश्यति
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम्। बलिः पप्रच्छ दैत्येनद्रं प्रह्लादं पितरं पितुः
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत। एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम्। करिष्यामि हि तत्सर्वं यथावदनुशासनम्
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः। सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा। इति तात विजानीहि द्वयमेतदसंशयम्
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति। भृत्याः परिभवन्त्येनमुदासीनास्तथाऽरयः
सर्वभूतानि चाप्यस् न नमन्ते कदाचन। तस्मान्नित्यं क्षमा तात पण्डितैरपि वर्जिता
अवज्ञाय हितं भृत्या भजन्ते बहुदोषताम्। आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः
यानं वस्त्राण्यलंकाराञ्शयनान्यासनानि च। भोजनान्यथ पानानि सर्वोपकरणानि च
आददीरन्नधिकृता यथाकाममचेतसः। प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात्
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन। अव्रज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम्
क्षमिणं तादृशं तांत ब्रुवन्ति कटुकान्यपि। प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः। दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः
तथा च नित्यमुदिता यदि नाल्पमपीश्वरात्। `अकृतोपद्रवः कश्चिन्महानपि न पूज्यते
पूजयन्ति नरा नागान्न तार्क्ष्यं नामघातिनम् ।।' एते चान्ये च बहवो नित्यं दोषाः क्षमावताम्
अथ वैरोचने दोषानिमान्विद्ध्यक्षमांवताम् ।। अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम्
अस्थाने यदि वा स्थाने सततं रजसावृतः। क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा