यत्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः। अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः
सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः। अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः
भीमसेनमिमं चापि दुःखितं वनवासिनम्। ध्यायतः किं न मन्युस्ते प्राप्ते काले विवर्धते
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतम्। सुखार्हं दुःखितं दृष्ट्वा कस्माद्राजन्नुपेक्षसे
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
अयं कुरून्रणे सर्वान्हन्तुमुत्सहते प्रभुः। त्वत्प्रतिज्ञां प्रतीक्षंस्तु सहतेऽयं वृकोदरः
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना। शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः
यस् शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः। यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः। ध्यायन्तमर्जुनं दृष्ट्वा कस्माद्राजन्न कुप्यसि
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्। न च तेवर्धते मन्युस्तेन मुह्यामि भारत
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः। प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतप
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे। नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर। सहदेवं वने दृष्ट्वा कस्मात्क्षमसि पार्थिव
नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ। अदुःखार्हौ मनुष्येन्द्र कस्मान्मन्युर्न वर्धते
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः। धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम्। मां वै वनगतां दृष्ट्वा कस्मात्क्षमसि पार्थिव
नूनं च तव नैवास्ति मन्युर्भरतसत्तम। यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा नव्यथते मनः
न निर्मन्युःक्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्। तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत्
यो न दर्शयते तेजः क्षत्रियः काल आगते। सर्वभूतानि तं पार्थ सदा परिभवन्त्युत
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन। तेजसैव हि ते शक्या निहन्तुं नात्र संशयः
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति। अप्रियः सर्वभूतानां सोमुत्रेह च नश्यति
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम्। बलिः पप्रच्छ दैत्येनद्रं प्रह्लादं पितरं पितुः
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत। एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम्। करिष्यामि हि तत्सर्वं यथावदनुशासनम्
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः। सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा। इति तात विजानीहि द्वयमेतदसंशयम्
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति। भृत्याः परिभवन्त्येनमुदासीनास्तथाऽरयः
सर्वभूतानि चाप्यस् न नमन्ते कदाचन। तस्मान्नित्यं क्षमा तात पण्डितैरपि वर्जिता