दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः। दुर्भ्रातुस्तस्य चोग्रस्य राजन्दुःखशासनस्य च
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम। दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम्
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम्। शोचामित्वां महाराजदुःखानर्हंसुखोचितम्
दान्तं यच्च सभामध्य आसनं रत्नभूषितम्। दृष्ट्वा कुशबृशीं चेमां शोको मां दारयत्ययम्
यदपश्यं सभायां त्वां राजभिः परिवारितम्। तच्च राजन्नपश्यन्त्याः का सान्तिर्हृदयस्यमे
या त्वाऽह्रं चन्दनादिग्धमपश्यं सूर्यवर्चसम्। सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत
या त्वाऽहं कौशिकैर्वस्त्रैः शुभ्रैराच्छादितं पुरा। दृष्टवत्यस्मिराजेनद्र साऽद्य पश्यामि चीरिणम्
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः। ह्रियते ते गृहादन्नं संस्कृतंसार्वकामिकम्
यतीनामगृहाणां ते तथैव गृहमेधिनाम्। दीयते भोजनं राजन्नतीव गुणवत्प्रभो
सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे। सर्वकामैः सुविहितैर्यदपूजयथा द्विजान्। तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे
यत्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः। अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः
सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः। अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः
भीमसेनमिमं चापि दुःखितं वनवासिनम्। ध्यायतः किं न मन्युस्ते प्राप्ते काले विवर्धते
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतम्। सुखार्हं दुःखितं दृष्ट्वा कस्माद्राजन्नुपेक्षसे
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
अयं कुरून्रणे सर्वान्हन्तुमुत्सहते प्रभुः। त्वत्प्रतिज्ञां प्रतीक्षंस्तु सहतेऽयं वृकोदरः
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना। शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः
यस् शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः। यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः। ध्यायन्तमर्जुनं दृष्ट्वा कस्माद्राजन्न कुप्यसि
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्। न च तेवर्धते मन्युस्तेन मुह्यामि भारत
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः। प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतप
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे। नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर। सहदेवं वने दृष्ट्वा कस्मात्क्षमसि पार्थिव
नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ। अदुःखार्हौ मनुष्येन्द्र कस्मान्मन्युर्न वर्धते
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः। धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम्। मां वै वनगतां दृष्ट्वा कस्मात्क्षमसि पार्थिव
नूनं च तव नैवास्ति मन्युर्भरतसत्तम। यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा नव्यथते मनः
न निर्मन्युःक्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्। तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत्
यो न दर्शयते तेजः क्षत्रियः काल आगते। सर्वभूतानि तं पार्थ सदा परिभवन्त्युत