सत्येनं धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य। यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्त
यथाप्रतिज्ञं च महानुभाव कृच्छ्रं वने वासमिमं निरूष्य। ततः श्रियं तेजसा तेन दीप्ता- मादास्वसे पार्थिव कौरेवभ्यः
तमेवमुक्त्वा वचनं महर्षि- स्तपस्विमध्ये सहितं सुहृद्धिः। आमन्त्र्य धौम्यं सहितांश्च पार्थां- स्ततः प्रतस्थे दिशमुत्तरां सः
ततो वनगताः पार्थाः सायाह्ने सह कृष्णया। उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः
प्रिया च दर्शनीया च पण्डिता च पतिव्रता। अथ कृष्णा धर्मराजमिदं वचनमब्रवीत्
न नूनं तस्य पापस्य दुःखमस्मासु किंचन। विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्। वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः
आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः। यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा। `वचनान्यपरोक्षाणि दुर्वाच्यानि च संसदि
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः। ईदृशं दुःखमानीय मोदते पापपूरुषः
चतुर्णामेव पापानामस्रं न पतितं तदा। त्वयि भारत निष्क्रान्ते वनायाजिनवाससि
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः। दुर्भ्रातुस्तस्य चोग्रस्य राजन्दुःखशासनस्य च
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम। दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम्
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम्। शोचामित्वां महाराजदुःखानर्हंसुखोचितम्
दान्तं यच्च सभामध्य आसनं रत्नभूषितम्। दृष्ट्वा कुशबृशीं चेमां शोको मां दारयत्ययम्
यदपश्यं सभायां त्वां राजभिः परिवारितम्। तच्च राजन्नपश्यन्त्याः का सान्तिर्हृदयस्यमे
या त्वाऽह्रं चन्दनादिग्धमपश्यं सूर्यवर्चसम्। सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत
या त्वाऽहं कौशिकैर्वस्त्रैः शुभ्रैराच्छादितं पुरा। दृष्टवत्यस्मिराजेनद्र साऽद्य पश्यामि चीरिणम्
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः। ह्रियते ते गृहादन्नं संस्कृतंसार्वकामिकम्
यतीनामगृहाणां ते तथैव गृहमेधिनाम्। दीयते भोजनं राजन्नतीव गुणवत्प्रभो
सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे। सर्वकामैः सुविहितैर्यदपूजयथा द्विजान्। तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे
यत्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः। अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः
सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः। अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः
भीमसेनमिमं चापि दुःखितं वनवासिनम्। ध्यायतः किं न मन्युस्ते प्राप्ते काले विवर्धते
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतम्। सुखार्हं दुःखितं दृष्ट्वा कस्माद्राजन्नुपेक्षसे
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते
अयं कुरून्रणे सर्वान्हन्तुमुत्सहते प्रभुः। त्वत्प्रतिज्ञां प्रतीक्षंस्तु सहतेऽयं वृकोदरः
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना। शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः
यस् शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः। यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः। ध्यायन्तमर्जुनं दृष्ट्वा कस्माद्राजन्न कुप्यसि
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्। न च तेवर्धते मन्युस्तेन मुह्यामि भारत