ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः। ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः। स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम्। तपस्विनः सत्यशीलाः शतशः संशितव्रताः
ते यात्वा पाण्डवास्तत्रब्राह्मणैर्बहुभिः सह। पुण्यं द्वैतवनं रम्यं विविशुर्बरतर्षभाः
तत्सालतालाम्रमधूकनीप- कदम्बसर्जार्जुनकर्णिकारैः। तपात्यये पुष्पधरैरुपेतं महावनं राष्ट्रपतिर्ददर्श
महाद्रुमाणां शिखरेषु तस्थु- र्मनोरमां वाचमुदीरयन्तः। मयूरदात्यूहचकोरसङ्घा- स्तस्मिन्वने बर्हिणकोकिलाश्च
करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम्। महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श
मनोरमां भोगवतीमुपेत्य पूतात्मनां चीरजटाधराणाम्। तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान्
ततः स यानादवरुह्य राजा सभ्रातृकः सजनः काननं तत्। विवेश धर्मात्मवतां बरिष्ठ- स्त्रिविष्टपं शक्र इवामितौजाः
तं सत्यसन्धं सहिताऽभिपेतु- र्दिदृक्षवश्चारणसिद्धसङ्घाः। वनौकसश्चापि नेरन्द्रसिंहं मनस्विनं तं परिवार्य तस्थुः
स तत्रवृद्धानभिवाद्य सर्वान् प्रत्यर्चितो राजवद्देववच्च। विवेश सर्वैः सहितो द्विजाग्र्यैः कृताञ्जलिर्धर्मभृतां वरिष्ठः
स पुण्यशीलः पितृवन्महात्मा तपस्विभिर्मपरैरुपेत्य। प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा
भीमश्च कृष्णा च धनंजयश्च यमौ च ते चानुचरा नरेन्द्रम्। विमुच्यवाहानवशाश्च सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः
लतावतानावनतः स पाण्डवै- र्महाद्रुमः पञ्चभिरेव धन्विभिः। बभौ निवासोपगतैर्महात्मभि- र्महागिरिर्वारणयूथपैरिव
तत्काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम्। विजह्रुरिनद्रप्रतिमाः शिवेषु सरस्वतीसालवनेषु तेषु
यतींश्च राजा स मुनींश्च सर्वां स्तस्मिन्वने मूलफलैरुदग्रैः। द्विजातिमुख्यानृषभः कुरूणां संतर्पयामास महानुभावः
इष्टीश्च पित्र्याणि तथा क्रियाश्च महावने वसतां पाण्डवानाम्। पुरोहितस्तत्र समृद्धतेजा- श्चकार धौम्यः पितृवन्नृपाणाम्
अपेत्य राष्ट्राद्वसतां तु तेषा- मृषिः पुराणोऽतिथिराजगाम। तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम्
तमागतं ज्वलितहुताशनप्रभं महामनाः कुरुवृषभो युधिष्ठिरः। अपूजयत्सुरऋषिमानवार्चितं महामुनिं ह्यनुपमसत्ववीर्यवान्
स सर्वविद्द्रौपदीं वीक्ष्य दीनां युधिष्टिरं भीमसेनार्जुनौ च। संस्मृत्यरामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः
तं धर्मराजो विमना इवाब्रवी- त्सर्वे ह्रिया सन्ति तपस्विनोऽमी। भवानिदं किं स्मयतीव हृष्ट- स्तपस्विनां पश्यतां मामुदीक्ष्य
न तात हृष्यामि न च स्मयामि प्रहर्षजो मां भजतेन दर्पः। तवापदं त्वद्य समीक्ष्य रामं सत्यव्रतं दाशरथिं स्मरामि
स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात्। धन्वी चरन्पार्थ मयैव दृष्टो गिरे पुरा ऋष्यमूकस्य सानौ
सहस्रनेत्रप्रतिमो महात्मा यमस्य नेता नमुचेश्च हन्ता। पितुर्निदेशादनघः स्वधर्मं चरन्वने दाशरथिश्चकार
स चापि शक्रस् समप्रभावो महानुभावः समरेष्वजेयः। विहाय भोगानचरद्वनेषु नेशे बलस्येति चरेदधर्मम्
भापाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य। सत्येन तेऽप्यजयस्तात लोका- न्नेशे बलस्येति चरेदधर्मम्
अलर्कमाहुर्नवर्य सन्तं सत्यव्रतं काशिकरूशराजम्। विहाय राज्यानि वसूनि चैव नेशे बलस्येति चरेदधर्मम्
धात्रा विधिर्यो विहितः पुराणै- स्तं पूजयन्तो नरवर्य सन्तः। सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम्
महाबलान्पर्वतकूटमात्रा- न्विषाणिनः पश्य गजान्नरेन्द्र। स्थितान्निदेशे नरवर्य धातु- र्नेशे बलस्येति चरेदधर्मम्
सर्वाणि भूतानि नरेन्द्र पश्य तथा यथावद्विहितं विधात्रा। स्वयोनितः कर्म सदाचरन्ति नेसे बलस्येति चरेदधर्मम्