बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम्। यत्रेमा द्वादश समाः सुखं प्रतिवसेमहि
एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः। गुरुवन्मानववरं मानयित्वा मनस्विनम्
भवानेव महर्षीणां वृद्धानां पर्युपासिता। अज्ञातं मानुषे लोके भवतो नास्ति किंचन
त्वया ह्युपासिता नित्यं ब्राह्मणा वेदपारगाः। द्वैपायनप्रभृतयो नारदश्च महातपाः
यः सर्वलोकद्वाराणि नित्यं संचरते वशी। देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि
अनुभावांश्च जानासि ब्राह्मणानां न संशयः। प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव
त्वमेव राजञ्जानासि श्रेयःकारणमेव च। यत्रेच्छसि महाराज निवासं तत्र कुंर्महे
इदं द्वैतवनं नाम सरः पुण्यजनोषितम्। बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम्
अत्रेमा द्वादश समा विहरेमेति रोचये। यदि तेऽनुमतं राजन्किमन्यन्मन्यते भवान्
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम्। गच्छामः पुण्यविख्यातं महद्द्वैतवनं सरः
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः। ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः। स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम्। तपस्विनः सत्यशीलाः शतशः संशितव्रताः
ते यात्वा पाण्डवास्तत्रब्राह्मणैर्बहुभिः सह। पुण्यं द्वैतवनं रम्यं विविशुर्बरतर्षभाः
तत्सालतालाम्रमधूकनीप- कदम्बसर्जार्जुनकर्णिकारैः। तपात्यये पुष्पधरैरुपेतं महावनं राष्ट्रपतिर्ददर्श
महाद्रुमाणां शिखरेषु तस्थु- र्मनोरमां वाचमुदीरयन्तः। मयूरदात्यूहचकोरसङ्घा- स्तस्मिन्वने बर्हिणकोकिलाश्च
करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम्। महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श
मनोरमां भोगवतीमुपेत्य पूतात्मनां चीरजटाधराणाम्। तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान्
ततः स यानादवरुह्य राजा सभ्रातृकः सजनः काननं तत्। विवेश धर्मात्मवतां बरिष्ठ- स्त्रिविष्टपं शक्र इवामितौजाः
तं सत्यसन्धं सहिताऽभिपेतु- र्दिदृक्षवश्चारणसिद्धसङ्घाः। वनौकसश्चापि नेरन्द्रसिंहं मनस्विनं तं परिवार्य तस्थुः
स तत्रवृद्धानभिवाद्य सर्वान् प्रत्यर्चितो राजवद्देववच्च। विवेश सर्वैः सहितो द्विजाग्र्यैः कृताञ्जलिर्धर्मभृतां वरिष्ठः
स पुण्यशीलः पितृवन्महात्मा तपस्विभिर्मपरैरुपेत्य। प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा
भीमश्च कृष्णा च धनंजयश्च यमौ च ते चानुचरा नरेन्द्रम्। विमुच्यवाहानवशाश्च सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः
लतावतानावनतः स पाण्डवै- र्महाद्रुमः पञ्चभिरेव धन्विभिः। बभौ निवासोपगतैर्महात्मभि- र्महागिरिर्वारणयूथपैरिव
तत्काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम्। विजह्रुरिनद्रप्रतिमाः शिवेषु सरस्वतीसालवनेषु तेषु
यतींश्च राजा स मुनींश्च सर्वां स्तस्मिन्वने मूलफलैरुदग्रैः। द्विजातिमुख्यानृषभः कुरूणां संतर्पयामास महानुभावः
इष्टीश्च पित्र्याणि तथा क्रियाश्च महावने वसतां पाण्डवानाम्। पुरोहितस्तत्र समृद्धतेजा- श्चकार धौम्यः पितृवन्नृपाणाम्
अपेत्य राष्ट्राद्वसतां तु तेषा- मृषिः पुराणोऽतिथिराजगाम। तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम्
तमागतं ज्वलितहुताशनप्रभं महामनाः कुरुवृषभो युधिष्ठिरः। अपूजयत्सुरऋषिमानवार्चितं महामुनिं ह्यनुपमसत्ववीर्यवान्
स सर्वविद्द्रौपदीं वीक्ष्य दीनां युधिष्टिरं भीमसेनार्जुनौ च। संस्मृत्यरामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः