वरः कुरूणामधिपः प्रजानां पितेव पुत्रानपहाय चास्मान्। पौरानिमाञ्जानपदांश्च सर्वान् हित्वा प्रयातः क्वनु धर्मराजः
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं धिक्सौबलं पापमतिं च कर्णम्। अनर्थमिच्छन्ति नरेन्द्र पापा ये धर्मनित्यस्य सतस्तवोग्राः
स्वयं निवेश्याप्रतिमं महात्मा पुरं महादेवपुरप्रकाशम्। शतक्रतुप्रस्थममोघकर्मा हित्वा प्रयातः क्वनु धर्मराजः
चकार यामप्रतिमां महात्मा सभां मयो देवसभाप्रकाशाम्। तां देवगुप्तामिव देवमायां हित्वाप्रयातः क्वनु धर्मराजः
तान्धर्मकामार्थविदुत्तमौजा बीभत्सुरुच्चैः सहितानुवाच। आदास्यते वासमिमं निरुष्य रवनेषु राजा द्विषतां यशांसि
द्विजातिमुख्याः सहिताः पृथक्व भवद्भिरासाद्य तपस्विनश्च। प्रसाद्य धर्मार्थविदश्च वाच्या यथार्थसिद्धिः परमा भवेन्नः
इत्येवमुक्ते वचनेऽऽर्जुनेन ते ब्राह्मणाः सर्ववर्णाश्च राजन्। मुदाऽभ्यनन्दन्सहिताश्च चक्रुः प्रदक्षिणं धर्मभृतांवरिष्ठम्
आमन्त्र्य पार्थं च वृकोदरं च धनंजयं याज्ञसेनीं यमौ च। प्रतस्थिरे राष्ट्रमरपेतहार्षा युधिष्ठिरेणानुमता यथास्वम्
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः। अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः
द्वादशेमाः समाऽस्माभिर्वस्तव्यं निर्जने वने। समीक्षध्वं महारण्ये देशं बहुमृगद्विजम्
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम्। यत्रेमा द्वादश समाः सुखं प्रतिवसेमहि
एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः। गुरुवन्मानववरं मानयित्वा मनस्विनम्
भवानेव महर्षीणां वृद्धानां पर्युपासिता। अज्ञातं मानुषे लोके भवतो नास्ति किंचन
त्वया ह्युपासिता नित्यं ब्राह्मणा वेदपारगाः। द्वैपायनप्रभृतयो नारदश्च महातपाः
यः सर्वलोकद्वाराणि नित्यं संचरते वशी। देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि
अनुभावांश्च जानासि ब्राह्मणानां न संशयः। प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव
त्वमेव राजञ्जानासि श्रेयःकारणमेव च। यत्रेच्छसि महाराज निवासं तत्र कुंर्महे
इदं द्वैतवनं नाम सरः पुण्यजनोषितम्। बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम्
अत्रेमा द्वादश समा विहरेमेति रोचये। यदि तेऽनुमतं राजन्किमन्यन्मन्यते भवान्
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम्। गच्छामः पुण्यविख्यातं महद्द्वैतवनं सरः
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः। ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः। स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम्। तपस्विनः सत्यशीलाः शतशः संशितव्रताः
ते यात्वा पाण्डवास्तत्रब्राह्मणैर्बहुभिः सह। पुण्यं द्वैतवनं रम्यं विविशुर्बरतर्षभाः
तत्सालतालाम्रमधूकनीप- कदम्बसर्जार्जुनकर्णिकारैः। तपात्यये पुष्पधरैरुपेतं महावनं राष्ट्रपतिर्ददर्श
महाद्रुमाणां शिखरेषु तस्थु- र्मनोरमां वाचमुदीरयन्तः। मयूरदात्यूहचकोरसङ्घा- स्तस्मिन्वने बर्हिणकोकिलाश्च
करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम्। महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श
मनोरमां भोगवतीमुपेत्य पूतात्मनां चीरजटाधराणाम्। तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान्
ततः स यानादवरुह्य राजा सभ्रातृकः सजनः काननं तत्। विवेश धर्मात्मवतां बरिष्ठ- स्त्रिविष्टपं शक्र इवामितौजाः
तं सत्यसन्धं सहिताऽभिपेतु- र्दिदृक्षवश्चारणसिद्धसङ्घाः। वनौकसश्चापि नेरन्द्रसिंहं मनस्विनं तं परिवार्य तस्थुः