रूपं सुदर्शनस्यासीदाकाशे पततस्तदा। द्वितीयस्येव सूर्यस् युगान्ते प्रतपिष्यतः
तत्समासाद्य नगरं सौभं व्यपगतत्विषम्। मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम्
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम्। महेश्वरशरोद्धूतं पपात त्रिपुरं यथा
तस्मिन्निपतिते सौभे चक्रमागात्करं मम। पुनश्चादाय वेगेन साल्वायेत्यहमब्रुवम्
ततः साल्वं गदां गुर्वीमाविध्यन्ते महाहवे। द्विधा चकार सहसा प्रजज्वाल च तेजसा
तस्मिन्विनिहते वीरे दानवास्त्रस्तचेतसः। हाहाभूता दिशो जग्मुरर्दिता मम सायकैः
ततोऽहंसमवस्थाप्यरथं सौभसमीपतः। शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम्
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्। दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः
एवं निहत्य समरे सौभं साल्वं निपात्य च। आनर्तात्पुनरागम्य सुहृदां प्रीतिमावहम्
तदेतत्कारणं राजन्नागमं नागसाह्वयम्। यद्यागां परवीरघ्न न हि जीवेत्सुयोधनः
मय्यागतेऽथवा वीर द्यूतं न भविता तथा। अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम्
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः। आमन्त्र्य प्रययौ श्रीमान्पाण्डवान्मधुसूदनः
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम्। राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः
परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः। संमानितश्च धौम्येन द्रौपद्या चार्चितोश्रुभिः
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम्। आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः
शैब्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा। द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम्
ततः प्रयते दाशार्हे धृष्टद्युम्नोपि पार्षतः। द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट्। जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम्
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा। आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत
ब्राह्मणाश्च विशश्चैव तथाविषयवासिनः। विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान्
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः। आसीन्महात्मनां तेषां काम्यके भरतर्षभ
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः। शशास पुरुषान्काले रथान्योजयतेति वै
तस्मिन्दशार्हाधिपतौ प्रयाते युधिष्ठिरो भीमसेनार्जुनौ च। यमौ च कृष्ण च पुरोहितश्च रथान्महार्हान्परमाश्वयुक्तान्
अस्थाय वीराः सहिता वनाय प्रतस्थिरे भूतपतिप्रकाशाः। हिरण्यनिष्कान्वसनानि गाश्च गदाय शिक्षाक्षरमन्त्रविद्भ्यः
प्रेष्याः पुरो विंशतिरात्तशस्त्रा धनूंषि शस्त्राणि शरांश्च दीप्तान्। मौर्वीश्च यन्त्राणि च सायकांश्च सर्वे समादाय जघन्यमीयुः
तत्सतु वासांसि च राजपुत्र्या धात्र्यश्च दास्यश्च विभूषणं च। तदिन्द्रसेनस्त्वरितः प्रगृह्य जघन्यमेवोपययौ रथेन
ततः कुरुश्रेष्ठमुपेत्य पौराः प्रदक्षिणं चक्रुरदीनसत्वाः। तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना मुख्याश्च सर्वे कुरुजाङ्गलानाम्
स चापि तानभ्यवदत्प्रसन्नः सहैव तैर्भ्रातृभिर्धर्मराजः। तस्थौ च तत्राधिपतिर्महात्मा दृष्ट्वा जनौघं कुरुजाङ्गलानाम्
पितेव पुत्रेषु स तेषु भावं चक्रे कुरूणामृषभो महात्मा। ते चापि तस्मिन्भरतप्रबर्हे तथा बभूवुः पितरीव पुत्राः
ततस्तमासाद्य महाजनौघाः कुरुप्रवीरं परिवार्य तस्थुः। हानाथ हाधर्म इति ब्रुवाणा हीताश्च सर्वेऽऽश्रुमुखा बभूवुः