ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा। ते भयर्ता दिशः सर्वे सहसा विप्रदुद्रुवुः
ततो हाहाकृतमभूत्सर्वं किल विशांपते। द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि
ततो विषण्णमनसो मम राजन्सुहृज्जनाः। रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः
द्विषतां च प्रहर्षोऽभूदार्तिश्च सुहृदामपि। एवं विजितवान्वीर पश्चादश्रौषमच्युत
ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम्। वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम्
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः। हया मम महाराज वेपमाना इवाभवन्
मेघजाल इवाकाशे विदार्याभ्युदितं रविम्। दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः
ततः पर्वतभारार्तान्मन्दप्राणविचेष्टितान्। हयान्संदृश्य मां सूतः प्राह तात्कालिकं वचः
साधु संपश्य वार्ष्णेय साल्वं सौभपतिं स्थितम्। अलं कृष्णावमन्यैनं साधु यत्नं समाचर
मार्दवं सखितां चैव साल्वादद्य व्यपाहर। जहि साल्वं महाबाहो मैनं जीवय केशव
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन्। न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा। योपिस्यात्पीठगः कश्चित्किं पुनः समरे स्थितः
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो। जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः
जितवाञ्जामदग्न्यं यः कोटिवर्षगणान्बहून्। स एष नान्यैर्वध्यो हि त्वामृते नास्ति कश्चन
नैष मार्दवसाध्यो वै मतो नापि सखा तव। येन त्वं योधितो वीर द्वारका चावमर्दिता
एवमादि तु कौन्तेय श्रुत्वाऽहं सारथेर्वचः। तत्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम्
वधाय साल्वराजस्य सौभस्य च निपातने। दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति
ततोऽप्रतिहतं दिव्यमभोद्यमतिवीर्यवत्। आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्। योजयं तत्रधनुषा दानवान्तकरं रणे
यक्षाणां राक्षसानां च दानवानां च संयुगे। राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत्
क्षुरान्तममलं चक्रं कालान्तकयमोपमम्। अनुमन्त्र्याहमतुलं द्विषतां विनिबर्हणम्
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम। इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा। द्वितीयस्येव सूर्यस् युगान्ते प्रतपिष्यतः
तत्समासाद्य नगरं सौभं व्यपगतत्विषम्। मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम्
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम्। महेश्वरशरोद्धूतं पपात त्रिपुरं यथा
तस्मिन्निपतिते सौभे चक्रमागात्करं मम। पुनश्चादाय वेगेन साल्वायेत्यहमब्रुवम्
ततः साल्वं गदां गुर्वीमाविध्यन्ते महाहवे। द्विधा चकार सहसा प्रजज्वाल च तेजसा
तस्मिन्विनिहते वीरे दानवास्त्रस्तचेतसः। हाहाभूता दिशो जग्मुरर्दिता मम सायकैः
ततोऽहंसमवस्थाप्यरथं सौभसमीपतः। शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम्
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्। दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः
एवं निहत्य समरे सौभं साल्वं निपात्य च। आनर्तात्पुनरागम्य सुहृदां प्रीतिमावहम्
तदेतत्कारणं राजन्नागमं नागसाह्वयम्। यद्यागां परवीरघ्न न हि जीवेत्सुयोधनः