तस्य रूपं प्रपततः पितुर्मम नराधिप। ययातेः क्षीणपुण्यस्य स्वर्गादिव भहीतलम्
विशीर्णमलिनोष्णीपप्रकीर्णाम्बरमूर्धजः। प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम। मोहापन्नश्च कौन्तेय रथोपस्थ उपाविशम्
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम्। मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत
प्रसार्य बाहू पततः प्रसार्य चरणावपि। रूपं पितुर्मे विबभौ शकुने- पततो यथा
तं पतन्तं महाबाहो शूलपट्टसपाणयः। अभिघ्नन्तो भृशं वीर मम चोतोह्यकम्पयन्
ततो मुहूर्तात्प्रतिलभ्य संज्ञा- महं तदा वीर महाविमर्दे। न तत्रसौमं न रिपुं च साल्वं पश्यामि वृद्धं पितरं न चापि
ततो ममासीन्मनसि मायेयमिति निश्चितम्। प्रबुद्धोस्मि ततो भूयः शतशो वाऽकिरं शरान्
ततोऽहं भरतश्रेष्ठ प्रगृह्यरुचिरं धनुः। शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम्
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः। प्रैषयं साल्वराजाय शार्ङ्गमुक्तान्सुवाससः
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह। अन्तर्हितं माययाऽभूत्ततोऽहं विस्मितोऽभवम्
अथ दानवसङ्घास्ते विकृताननमूर्धजाः। उदक्रोशन्महाराज धिष्ठिते मयि भारत
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे। अयोजयं तद्वधाय ततः शब्द उपारमत्
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः। शरैरादित्यसंकशैर्ज्वलितैः शब्दसाधनैः
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्। शब्दोऽपरो महाराज तत्रापि प्राहरं शरैः
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत। नादयामासुरसुरास्ते चापि निहता मया
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत। सौभं कामगमं वीर मोहयन्मम चक्षुषी
ततो लोकान्तकरणो दानवो दारुणाकृतिः। शिलावर्षेण महता सहसा मां समावृणोत्
सोहं पर्वतवर्षेण वध्यमानः समन्ततः। वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम्
ततोऽहं पर्वतचितः सहयः सहसारथिः। अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा। ते भयर्ता दिशः सर्वे सहसा विप्रदुद्रुवुः
ततो हाहाकृतमभूत्सर्वं किल विशांपते। द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि
ततो विषण्णमनसो मम राजन्सुहृज्जनाः। रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः
द्विषतां च प्रहर्षोऽभूदार्तिश्च सुहृदामपि। एवं विजितवान्वीर पश्चादश्रौषमच्युत
ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम्। वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम्
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः। हया मम महाराज वेपमाना इवाभवन्
मेघजाल इवाकाशे विदार्याभ्युदितं रविम्। दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः
ततः पर्वतभारार्तान्मन्दप्राणविचेष्टितान्। हयान्संदृश्य मां सूतः प्राह तात्कालिकं वचः
साधु संपश्य वार्ष्णेय साल्वं सौभपतिं स्थितम्। अलं कृष्णावमन्यैनं साधु यत्नं समाचर
मार्दवं सखितां चैव साल्वादद्य व्यपाहर। जहि साल्वं महाबाहो मैनं जीवय केशव