तानाशुगैरापततोऽहमाशु निवार्य तूर्णं खगमान्ख एव। द्विधा त्रिता चाच्छिनमाशु मुक्तै- स्ततोऽन्तरिक्षे निनदो बभूव
ततः शतसहस्रेण शराणां नतपर्वणाम्। दारुकं वाजिनश्चैव रथं च समवाकिरत्
ततो मामब्रवीद्वीर दारुको विह्वलन्निव। स्थातव्यमिति तिष्ठामि साल्वबाणप्रपीडितः। अवस्थातुं न शक्नोमि अङ्गं मे व्यवसीदति
इति तस्य निशम्याहं सारथेः करुणं वचः। अवेक्षमाणो यन्तारमपश्यं शरपीडितम्
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये। अन्तरं पाण्डवश्रेष्ठ पश्याम्यनिचितं शरैः
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम्। अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान्
अभीशुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे। अस्तम्भयं महाबाहो साल्वबाणप्रपीडितम्
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत्। त्वरितो रथमारोप्य सौहृदादिव भारत
आहुकस्य वचो वीर तस्यैव परिचारकः। विषण्णः सन्नकण्ठेन तन्निबोध युधिष्ठिर
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः। केशवैहि विजानीष्व यत्त्वां पितृसखोऽब्रवीत्
उपयात्वा तु साल्वेन द्वारकां वृष्णिनन्दन। विषक्ते त्वयि दुर्धर्ष इतः शूरसुतो बलात्
तदलं साधुयुद्धेन निवर्तस्व जनार्दन। द्वारकामेव रक्षस्व कार्यमेतन्महत्तव
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः। निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य च
सात्यकिं बलदेवं च प्रद्युम्नं च महांरथम्। जगर्हे मनसा वीर तच्छ्रुत्वा महदप्रियम्
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन। तेषु रक्षां समाधाय प्रयातः सौभयातने
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा। सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान्। साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः
एतेषु हि नरव्याघ्र जीवत्सु न कथंचन। शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम्
हतः शूरसुतो व्यक्तं व्यक्तं चैते परासवः। बलदेवमुखाः सर्व इति मे निश्चिता मतिः
सोहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः। अविह्वलो महाराज पुनः साल्वमयोधयम्
तदोऽपश्यं महाराज प्रपतन्तमहं तदा। सौभाच्छूरसुतं वीर ततो मां मोह आविशत्
तस्य रूपं प्रपततः पितुर्मम नराधिप। ययातेः क्षीणपुण्यस्य स्वर्गादिव भहीतलम्
विशीर्णमलिनोष्णीपप्रकीर्णाम्बरमूर्धजः। प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम। मोहापन्नश्च कौन्तेय रथोपस्थ उपाविशम्
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम्। मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत
प्रसार्य बाहू पततः प्रसार्य चरणावपि। रूपं पितुर्मे विबभौ शकुने- पततो यथा
तं पतन्तं महाबाहो शूलपट्टसपाणयः। अभिघ्नन्तो भृशं वीर मम चोतोह्यकम्पयन्
ततो मुहूर्तात्प्रतिलभ्य संज्ञा- महं तदा वीर महाविमर्दे। न तत्रसौमं न रिपुं च साल्वं पश्यामि वृद्धं पितरं न चापि
ततो ममासीन्मनसि मायेयमिति निश्चितम्। प्रबुद्धोस्मि ततो भूयः शतशो वाऽकिरं शरान्
ततोऽहं भरतश्रेष्ठ प्रगृह्यरुचिरं धनुः। शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम्
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः। प्रैषयं साल्वराजाय शार्ङ्गमुक्तान्सुवाससः