न हया न रथो वीर न ध्वजो न च दारुकः। अदृश्यन्त शरैश्छन्नास्तथाऽहं सैनिकाश्च मे
ततोऽहमपि कौन्तेय शराणामयुतान्बहून्। आमन्त्रितानां धनुषा दिव्येन विधिनाऽक्षिपम्
न तत्रविषयस्त्वासीन्मम सैन्यस्य भारत। खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत्
ततस्ते प्रेक्षकाः सर्वे देवा वै दिवमास्थिताः। हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे। अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत। वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः। नदन्तो भैरवान्नादान्निपतन्ति स्म दानवाः। पतितास्तेऽपि भक्ष्यन्ते समुद्रांभोनिवासिभिः
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम्। जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम्
तान्दृष्ट्वा पतितांस्तत्र साल्वः सौभपतिस्ततः। मायायुद्धेन महता योधयामास मां युधि
ततो गदा हलाः प्रासाः शूलशक्तिपरश्चथाः। असयः शक्तिकुलिशपाशर्ष्टिकनपाः शराः। पट्टसाश्च भुशुण्ड्यश्च प्रपतन्त्यनिशं मयि
तामहं माययैवाशु प्रतिगृह्य व्यनाशयम्। तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत्
ततोऽभवत्तम इव प्रकाश इव चाभवत्। दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत
अङ्गारपांसुवर्षं च शस्त्रवर्षं च भारत। एवं मायां प्रकुर्वाणो योधयामास मां रिपुः
विज्ञाय तदहं सर्वं माययैव व्यनाशयम्। यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः
ततो हतायां च मया मायायां युधि दानवः। मायामन्यां महाराज चकार मतिमोहिनीम्
ततो व्योम महाराज शतसूर्यमिवाभवत्। शतचन्द्रं च कौन्तेय सहस्रायुततारकम्
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः। ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम्
तदस्त्रमस्तमस्त्रेण विधूतं शरतूलवत्। तथा तदभवद्युद्धं तुमुलं रोमहर्षणम्। लब्धालोकस्तु राजेन्द्र पुनः शत्रुमयोधयम्
एवं स पुरुषव्याघ्रः साल्वो राज्ञं महारिपुः। युध्यमानो मया सङ्ख्ये वियदभ्यगमत्पुनः
ततः शतघ्नीश्च महागदाश्च दीप्ताश्च शूलान्मुसलानसींश्च। चिक्षेप रोषान्मयि मन्दबुद्धिः साल्वो महाराज जयाभिकाङ्क्षी
तानाशुगैरापततोऽहमाशु निवार्य तूर्णं खगमान्ख एव। द्विधा त्रिता चाच्छिनमाशु मुक्तै- स्ततोऽन्तरिक्षे निनदो बभूव
ततः शतसहस्रेण शराणां नतपर्वणाम्। दारुकं वाजिनश्चैव रथं च समवाकिरत्
ततो मामब्रवीद्वीर दारुको विह्वलन्निव। स्थातव्यमिति तिष्ठामि साल्वबाणप्रपीडितः। अवस्थातुं न शक्नोमि अङ्गं मे व्यवसीदति
इति तस्य निशम्याहं सारथेः करुणं वचः। अवेक्षमाणो यन्तारमपश्यं शरपीडितम्
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये। अन्तरं पाण्डवश्रेष्ठ पश्याम्यनिचितं शरैः
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम्। अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान्
अभीशुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे। अस्तम्भयं महाबाहो साल्वबाणप्रपीडितम्
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत्। त्वरितो रथमारोप्य सौहृदादिव भारत
आहुकस्य वचो वीर तस्यैव परिचारकः। विषण्णः सन्नकण्ठेन तन्निबोध युधिष्ठिर
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः। केशवैहि विजानीष्व यत्त्वां पितृसखोऽब्रवीत्