एवमुक्तः स तु मया विस्तरेणेदमब्रवीत्। रोधं मोक्षं च साल्वेन हार्दिक्यो राजसत्तम
ततोऽहं भरतश्रेष्ठ श्रुत्वा सर्वमशेषतः। विनाशे साल्वराजस्य तदैवाकरवं मतिम्
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् ।। राजानमाहुकं चैव तथैवाकनदुन्दुभिम्
सर्वान्वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा। अप्रमादः सदा कार्यो नगरे यादवर्षभाः
साल्वराजविनाशाय प्रयातं मां निबोधत। नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति
ससाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः। त्रिःसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणा
ते मयाऽऽश्वासिता वीरा यथावद्भरतर्षभ। सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहिशात्रवान्
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः। वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसा भवम्
शैब्यसुग्रीवयुक्तेन रथेनानादयन्दिशः। प्रध्माय शङ्खप्रवरं पाञ्चजन्यमहं नृप
प्रयातोस्मि नरव्याघ्र बलेन महता वृतः। क्लृप्तेन चतुरङ्गेण यत्तेन जितकाशिना
समतीत्य बहून्देशान्गिरींश्च बहुपादपान्। सरांसि सरितश्चैव मार्तिकावतमासदम्
तत्राश्रौषं नरव्याघ्र साल्वं सागरमन्तिकात्। प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वगाम्
दृष्टवानस्मि राजेन्द्र साल्वराजमथान्तिके।' ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः। समुद्रनाभ्यां साल्वोऽभूत्सौभमास्थाय शत्रुहन्
स मामालोक्य सहसा सेनां स्वां प्राहिणोन्मृधे। मद्बाहुना च सेनायां शिष्टायां किंचिदेव च
स समालोक्य सहसा स्मयन्निव युधिष्ठिर। आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः। पुरं नासाद्यत शरैस्ततो मां रोष आविशत्
स चापि पापप्रकृतिर्दैतेयापशदो नृप। मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः
सैनिकान्मम सूतं च हयांश्च स समाकिरत्। अचिन्तयन्तस्तु शरान्वयं युध्याम भारत
ततः शतसहस्राणि शराणां नतपर्वणाम्। चिक्षिपुः समरे वीरा मयि साल्वपदानुगाः
ते हयांश्च रथं चैव ध्वजं दारुकमेव च। छादयामासुरसुरास्तैर्बाणैर्मर्मभेदिभिः
न हया न रथो वीर न ध्वजो न च दारुकः। अदृश्यन्त शरैश्छन्नास्तथाऽहं सैनिकाश्च मे
ततोऽहमपि कौन्तेय शराणामयुतान्बहून्। आमन्त्रितानां धनुषा दिव्येन विधिनाऽक्षिपम्
न तत्रविषयस्त्वासीन्मम सैन्यस्य भारत। खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत्
ततस्ते प्रेक्षकाः सर्वे देवा वै दिवमास्थिताः। हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे। अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत। वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः। नदन्तो भैरवान्नादान्निपतन्ति स्म दानवाः। पतितास्तेऽपि भक्ष्यन्ते समुद्रांभोनिवासिभिः
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम्। जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम्
तान्दृष्ट्वा पतितांस्तत्र साल्वः सौभपतिस्ततः। मायायुद्धेन महता योधयामास मां युधि
ततो गदा हलाः प्रासाः शूलशक्तिपरश्चथाः। असयः शक्तिकुलिशपाशर्ष्टिकनपाः शराः। पट्टसाश्च भुशुण्ड्यश्च प्रपतन्त्यनिशं मयि