तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम्। नैव वध्यस्त्वया वीर साल्वराजः कथंचन
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे। एतस्य च शरस्याजौ नावध्योस्ति पुमान्क्वचित्
मृत्युरस्य महाबाहो रणे देवकिनन्दनः। कृष्णः संकल्पितो धात्रा तन्मिथ्या न भवेदिति
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम्। संजहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत्
तत उत्थाय राजेन्द्र साल्वः परमदुर्मनाः। व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः
स द्वारकां परित्यज्य साल्वो वृष्णिभिरार्दितः। सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा
आनर्तनगरं मुक्तं ततोऽहमगमं तदा। महाक्रतौ राजसूये निवृत्ते नृपते तव
अपश्यं द्वारकां चाहं महाराज हतत्विषम्। निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम्
अनभिज्ञेयरूपाणि द्वारकोपवनानि च। दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम्
अस्वस्थनरनारीकमिदं वृष्णिकुलं भृशम्। किमिदं नरशार्दूल श्रोतुमिच्छामि तत्त्वतः
एवमुक्तः स तु मया विस्तरेणेदमब्रवीत्। रोधं मोक्षं च साल्वेन हार्दिक्यो राजसत्तम
ततोऽहं भरतश्रेष्ठ श्रुत्वा सर्वमशेषतः। विनाशे साल्वराजस्य तदैवाकरवं मतिम्
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् ।। राजानमाहुकं चैव तथैवाकनदुन्दुभिम्
सर्वान्वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा। अप्रमादः सदा कार्यो नगरे यादवर्षभाः
साल्वराजविनाशाय प्रयातं मां निबोधत। नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति
ससाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः। त्रिःसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणा
ते मयाऽऽश्वासिता वीरा यथावद्भरतर्षभ। सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहिशात्रवान्
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः। वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसा भवम्
शैब्यसुग्रीवयुक्तेन रथेनानादयन्दिशः। प्रध्माय शङ्खप्रवरं पाञ्चजन्यमहं नृप
प्रयातोस्मि नरव्याघ्र बलेन महता वृतः। क्लृप्तेन चतुरङ्गेण यत्तेन जितकाशिना
समतीत्य बहून्देशान्गिरींश्च बहुपादपान्। सरांसि सरितश्चैव मार्तिकावतमासदम्
तत्राश्रौषं नरव्याघ्र साल्वं सागरमन्तिकात्। प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वगाम्
दृष्टवानस्मि राजेन्द्र साल्वराजमथान्तिके।' ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः। समुद्रनाभ्यां साल्वोऽभूत्सौभमास्थाय शत्रुहन्
स मामालोक्य सहसा सेनां स्वां प्राहिणोन्मृधे। मद्बाहुना च सेनायां शिष्टायां किंचिदेव च
स समालोक्य सहसा स्मयन्निव युधिष्ठिर। आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः। पुरं नासाद्यत शरैस्ततो मां रोष आविशत्
स चापि पापप्रकृतिर्दैतेयापशदो नृप। मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः
सैनिकान्मम सूतं च हयांश्च स समाकिरत्। अचिन्तयन्तस्तु शरान्वयं युध्याम भारत
ततः शतसहस्राणि शराणां नतपर्वणाम्। चिक्षिपुः समरे वीरा मयि साल्वपदानुगाः
ते हयांश्च रथं चैव ध्वजं दारुकमेव च। छादयामासुरसुरास्तैर्बाणैर्मर्मभेदिभिः