न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान्। युद्धज्ञोस्मि च वृष्णीनां नात्र किंचिदतोऽन्यथा
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः। सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः
त्वं हि साल्वप्रयुक्तेन शरेणाभिहतो भृशम्। कश्मलाभिहतो वीर ततोऽहमपयातवान्
सत्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया। पश्य मे हयसंयाने शिक्षां केशवनन्दन
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः। वीतभीः प्रविशाम्येतां साल्वस्य महतीं चमूम्
एवमुक्त्वा ततो वीरो हयान्संचोद्य संगरे। रश्मिभिस्तु समुद्यम्य जवेनाभ्यपतत्तदा
मण्डलानि विचित्राणि यमकानीतराणि च। सव्यानि च विचित्राणि दक्षिणानि च सर्वशः
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः। उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम्। उह्यमाना इव तदा नास्पृशंश्चरणैर्महीम्
सोपसव्यां चमूं तस्य साल्वस्य भरतर्षभ। चकार नातियत्नेन तदद्भुतमिवाभवत्
अमृष्यमाणोपसव्यं साल्वः समितिदारुणः। यन्तारमस्य सहसा त्रिभिर्बाणैः समार्दयत्
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन्। भूय एव महाबाहो प्रययावपसव्यतः
ततो बाणान्बहुविधान्पुनरेव स सौभराट्। मुमोच तनये वीर मम रुक्मिणिनन्दने
तानप्राप्ताञ्शितैर्ब्राणैश्चिच्छेद परवीरहा। रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवं
छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन च सौभराट्। आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान्
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलम्। ब्रह्मास्त्रेणान्तरा च्छित्त्वामुमोचान्यन्पतस्त्रिणः
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः। शिरस्युरसि वक्रे च स मुमोह पपात च
तस्मिन्निपतिते क्षुद्रे साल्वे बाणप्रपीडिते। रौक्मिणेयोऽपरं बाणं संदधे शत्रतापनः
तमर्चितं सर्वदाशार्हपूगै- राशीर्भिरर्कज्वलनप्रकाशम्। दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम्
ततो देवगणाः सर्वे सेन्द्राः सहधनेश्वराः। नारदं प्रेषयामासु- श्वसनं च मनोजवम्
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम्। नैव वध्यस्त्वया वीर साल्वराजः कथंचन
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे। एतस्य च शरस्याजौ नावध्योस्ति पुमान्क्वचित्
मृत्युरस्य महाबाहो रणे देवकिनन्दनः। कृष्णः संकल्पितो धात्रा तन्मिथ्या न भवेदिति
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम्। संजहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत्
तत उत्थाय राजेन्द्र साल्वः परमदुर्मनाः। व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः
स द्वारकां परित्यज्य साल्वो वृष्णिभिरार्दितः। सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा
आनर्तनगरं मुक्तं ततोऽहमगमं तदा। महाक्रतौ राजसूये निवृत्ते नृपते तव
अपश्यं द्वारकां चाहं महाराज हतत्विषम्। निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम्
अनभिज्ञेयरूपाणि द्वारकोपवनानि च। दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम्
अस्वस्थनरनारीकमिदं वृष्णिकुलं भृशम्। किमिदं नरशार्दूल श्रोतुमिच्छामि तत्त्वतः