युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च। घातयित्वा जरासन्धं चैद्यं च बलगर्वितम्
दुर्योधनं समागच्छन्नर्हणानि ततस्ततः। मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च
विचित्राणि च वासांसि प्रावारावरणानि च। कम्बलाजिनरत्नानि राङ्कवास्तरणानि च
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम्। ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत
विमानप्रतिमां तत्र मयेन सुकृतां सभाम्। पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत
तत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात्। प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च। कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः। तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान्
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत। द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत
निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम्। विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम्
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्। दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा
धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत्। शृणु संजय सर्वं मे नचासूयितुमर्हसि
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः। न विग्रहे मम मतिर्न च प्रीये कुलक्षये
न मे विशेषः पुत्रेषु स्वेषु पाम्डुसुतेषु वा। वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत्। मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम्
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः। तच्चावहसनं प्राप्य सभारोहणदर्शने
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे। निरुत्साहश्च संप्राप्तुं सुश्रियं क्षत्रियोऽपि सन्
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत्। तत्र यद्यद्यथा ज्ञातं मयां संजय तच्छृणु
श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः। ततो ज्ञास्यसि मां सौते प्रज्ञाटचक्षुषमित्युत
यदाऽश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम्। कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन। इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय
यदाऽश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन। अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय
यदाऽश्रौषं जातुषाद्वेश्मनस्ता- न्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्। युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन। शूरान्पञ्चालान्पाण्डवेयांश्च युक्तां- स्तदा नाशंसे विजयाय संजय
यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्ष्वमध्ये ज्वलन्तम्। दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय
यदाऽश्रौषं दिग्जये पाण्डुपुत्रै- र्वशीकृतान्भूमिपालान्प्रसह्य। महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम्। रजस्वलां नाथवतीमनाथव- त्तदा नाशंसे विजयाय संजय
यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः। दुःशासनो गतवान्नैवं चान्तं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम्। अन्वागतं भ्रातृभिरप्रमेयै- स्तदा नाशंसे विजयाय संजय