सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः। नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते
कच्चित्सौते न ते मोहः साल्वं दृष्ट्वा महाहवे। विषादो वा रणँ दृष्ट्वा ब्रूहि मे त्वं यथातथम्
जानार्दने न मे मोहो नापि मां भयमाविशत्। अतिभारं तु ते मन्ये साल्वं केशवनन्दन
सोभियाति शनैर्वीर बलवानेष पापकृत्। मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाऽप्यहम्। रक्षितव्यो रणे नित्यमिति कृत्वाऽपयाम्यहम्
एकश्चासि महाबाहो बहवश्चापि दानवाः। न समं रौक्मिणेयाहं रणए मत्वाऽपयामि वा
एवं ब्रुवति सूते तु तदा मकरकेतुमान्। उवाच सूतं कौरव्य संनिवर्त्य रथं पुनः
दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन। न्यपयानं रणात्सौते जीवतो मम कर्हिचित्
न स वृष्णिकुले जातो यो वै त्यजति संगरम्। यो वा निपतितं हन्ति तवास्मीति च वादिनम्
तथा स्त्रियं च यो हन्ति बालं वृद्धं तथैव च। विरथं मुक्तकेशं च भग्नशस्त्रायुधं तथा
त्वं च सूतकुले जातो विदितः सूतकर्मणि। धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे। अपयानं पुन सौते मैवं कार्षीः कथंचन
अपयातं हतं पृष्ठे भ्रान्तं रणपलायितम्। गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः
केशवस्याग्रजो वाऽपि नीलवासा मदोत्कटः। किं वक्ष्यति महाबाहुर्बलदेवः समागतः
किं वक्ष्यतिशिनेर्नप्ता रणसिंहो महारथः। अपयातं रणात्सूत साम्बश्च समितिंजयः
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ। अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे
शूरं संभावितं शान्तं नित्यं पुरुषमानिनम्। स्त्रियश्च वृष्णिवीराणां किं मांवक्ष्यन्ति संगताः
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम्। धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति
धिग्वाचा परिहासोपि मम वा मद्विधस्य वा। मृत्युनाऽभ्यधिकः सौते स त्वं माव्यपयाः पुनः
भारं हि मयि संन्यस्य यातो मधुनिहा हरिः। यज्ञं बारतसिंहस्य न हि शक्योऽद्यमर्षितुम्
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः। साल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज
स च संभावयन्मां वै निवृत्तो हृदिकात्मजः। तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथं
उपयान्तं दुराधर्षं शङ्खचक्रगदाधरम्। पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम्
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः। मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहं
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः। त्वयाऽपनीती विवशो न जीवेयं कथंचन
संनिवर्त रथेनाशु पुनर्दारुकनन्दन। न चैतदेवं कर्तव्यमथापत्सु कथंचन
न जीवितमहं सौते बहु मन्ये कथंचन। अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः
कदाऽपि सूतपुत्र त्वं जानीषे मां भयार्दितम्। अपयातं रणं हित्वा यथा कापुरुषं तथा
अयुक्तं तु मया त्यक्तुं संग्रामं दारुकात्मज। मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम्
एवमुक्तस्तु कौन्तेय सूतपुत्रस्ततो मृधे। प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा