सरोषमहमत्तो वै कामगादवरुह्य च। प्रद्युम्नं योधयामास साल्वः परपुरंजयः
तयोः सुतुमुलं युद्धं साल्ववृष्णिप्रवीरयोः। समेता ददृशुर्लोका बलिवासवयोरिव
तस्य मायामयो वीर रथो हेमपरिष्कृतः। सपताकः सध्वजश्च सानुकर्षः स तूणवान्
स तं रथवरं श्रीमान्समारुह्य किल प्रभो। मुमोच बाणान्कौख्य प्रद्युम्नाय महाबलः
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे। प्रद्युम्नो भुजवेगेन साल्वं संमोहयन्निव
स तैरभिहतः सङ्ख्ये नामर्यत सौभराट्। शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम
तमापतन्तं बाणौधं स चिच्छेद महाबलः। ततश्चान्याञ्शरान्दीप्तान्प्रचिक्षेप सुते मम
स साल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः। मुमोच बाणं त्वरितो मर्मभेदिनमाहवे
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः। विवेश हृदयं पत्री स पपात भृशहतः
तस्मिन्निपतिते वीरे साल्वराजे विचेतसि। संप्रद्रबन्दानवेन्द्रा दारयन्तो वसुंधराम्
हाहाकृतमभूत्सैन्यं साल्वस्य पृथिवीपते। नष्टसंज्ञे निपतिते तदा सौभपतौ नृपे
तत उत्थाय राजेन्द्र प्रतिलभ्य च चेतनाम्। मुमोच बाणान्सहसा प्रद्युम्नाय महाबलः
तेन बाणेन महता प्रद्युम्नः समरे स्थितः। जत्रुदेशे भृशं विद्धो व्यथितो ददृशे तदा
तं स विद्ध्वा महाराज साल्वो रुक्मिणिनन्दनम्। ननाद सिंहनादं वै नादेनापूरयन्महीम्
ततो मोहं समापन्ने तनये मम भारत। मुमोच बाणांस्त्वरितः पुनरन्यान्दुरात्मवान्
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः। निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे
साल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनांवरे। वृष्णयो भग्नसंकल्पा विव्यथुः पृतनामुखे
हाहाकृतमभूत्सर्वं वृष्ण्यन्धकबलं ततः। प्रद्युम्ने मोहिते राजन्साल्वः प्रमुदितोऽभवत्
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः। रणादपाहरत्तूर्णं शिक्षितो दारुकिस्तदा
नातिदूरापयाते तु रथे रथवरप्रणुत्। धनुर्गृहीत्वा यन्तारं लब्धसज्ञोऽब्रवीदिदम्
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः। नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते
कच्चित्सौते न ते मोहः साल्वं दृष्ट्वा महाहवे। विषादो वा रणँ दृष्ट्वा ब्रूहि मे त्वं यथातथम्
जानार्दने न मे मोहो नापि मां भयमाविशत्। अतिभारं तु ते मन्ये साल्वं केशवनन्दन
सोभियाति शनैर्वीर बलवानेष पापकृत्। मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाऽप्यहम्। रक्षितव्यो रणे नित्यमिति कृत्वाऽपयाम्यहम्
एकश्चासि महाबाहो बहवश्चापि दानवाः। न समं रौक्मिणेयाहं रणए मत्वाऽपयामि वा
एवं ब्रुवति सूते तु तदा मकरकेतुमान्। उवाच सूतं कौरव्य संनिवर्त्य रथं पुनः
दारुकात्मज मैवं त्वं पुनः कार्षीः कथंचन। न्यपयानं रणात्सौते जीवतो मम कर्हिचित्
न स वृष्णिकुले जातो यो वै त्यजति संगरम्। यो वा निपतितं हन्ति तवास्मीति च वादिनम्
तथा स्त्रियं च यो हन्ति बालं वृद्धं तथैव च। विरथं मुक्तकेशं च भग्नशस्त्रायुधं तथा