एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन। धिष्टितं तद्बलं द्वारि युयुधे च यथासुखम्
एवमुक्त्वा रौक्मिणेयो यादवान्यादवर्षभ। दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम्
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम्। उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान्
विक्षिपन्नादयंश्चापि धनुः श्रेष्ठं महाबलैः। तूणखङ्गधरः शूरो बद्धगोधाङ्गुलित्रवान्
सविद्युच्छुरितं चापं विहरन्वै तलात्तलम्। मोहयामास दैतेयान्सर्वान्सौभनिवासिनः
तस्य विक्षिपतश्चापं संदधानस्य चासकृत्। नान्तरं ददृशे कश्चिन्नघ्नितः शात्रवान्रणे
मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य। सिंहोन्नतं चाप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतवीर्यमग्र्यम्
जलेचरः काञ्चनयष्टिसंस्थो व्यात्ताननः शत्रुबलप्रमाथी। वित्रासयन्राजति वाहमुख्ये साल्वस्य सेनाप्रमुखे ध्वजाग्र्यः
ततस्तूर्णं विनिष्पत्य प्रद्युम्नः शत्रुकर्शनः। साल्वमेवाभिदुद्राव विधित्सुः कलहं नृप
अभियानं तु वीरेण प्रद्युम्नेन महारणे। नामर्षयत संक्रुद्वः साल्वः कुरुकुलोद्वह
सरोषमहमत्तो वै कामगादवरुह्य च। प्रद्युम्नं योधयामास साल्वः परपुरंजयः
तयोः सुतुमुलं युद्धं साल्ववृष्णिप्रवीरयोः। समेता ददृशुर्लोका बलिवासवयोरिव
तस्य मायामयो वीर रथो हेमपरिष्कृतः। सपताकः सध्वजश्च सानुकर्षः स तूणवान्
स तं रथवरं श्रीमान्समारुह्य किल प्रभो। मुमोच बाणान्कौख्य प्रद्युम्नाय महाबलः
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे। प्रद्युम्नो भुजवेगेन साल्वं संमोहयन्निव
स तैरभिहतः सङ्ख्ये नामर्यत सौभराट्। शरान्दीप्ताग्निसंकाशान्मुमोच तनये मम
तमापतन्तं बाणौधं स चिच्छेद महाबलः। ततश्चान्याञ्शरान्दीप्तान्प्रचिक्षेप सुते मम
स साल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः। मुमोच बाणं त्वरितो मर्मभेदिनमाहवे
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः। विवेश हृदयं पत्री स पपात भृशहतः
तस्मिन्निपतिते वीरे साल्वराजे विचेतसि। संप्रद्रबन्दानवेन्द्रा दारयन्तो वसुंधराम्
हाहाकृतमभूत्सैन्यं साल्वस्य पृथिवीपते। नष्टसंज्ञे निपतिते तदा सौभपतौ नृपे
तत उत्थाय राजेन्द्र प्रतिलभ्य च चेतनाम्। मुमोच बाणान्सहसा प्रद्युम्नाय महाबलः
तेन बाणेन महता प्रद्युम्नः समरे स्थितः। जत्रुदेशे भृशं विद्धो व्यथितो ददृशे तदा
तं स विद्ध्वा महाराज साल्वो रुक्मिणिनन्दनम्। ननाद सिंहनादं वै नादेनापूरयन्महीम्
ततो मोहं समापन्ने तनये मम भारत। मुमोच बाणांस्त्वरितः पुनरन्यान्दुरात्मवान्
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः। निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे
साल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनांवरे। वृष्णयो भग्नसंकल्पा विव्यथुः पृतनामुखे
हाहाकृतमभूत्सर्वं वृष्ण्यन्धकबलं ततः। प्रद्युम्ने मोहिते राजन्साल्वः प्रमुदितोऽभवत्
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः। रणादपाहरत्तूर्णं शिक्षितो दारुकिस्तदा
नातिदूरापयाते तु रथे रथवरप्रणुत्। धनुर्गृहीत्वा यन्तारं लब्धसज्ञोऽब्रवीदिदम्