वर्जयित्वा श्मशानानि देवतायतनानि च। वल्मीकांश्चैव चैत्यांश्च संनिविष्टमभूद्बलम्
अनीकानां विभागेन पन्थानः सुकृतास्तथा। प्रथमा नवमाश्चैव साल्वस्य शिबिरे नृप
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम्। रथनागाश्वकलिलं पदातिजनसंकुलम्
तुष्टपुष्टबलोपेतं वीरलक्षणलक्षितम्। विचित्रध्वजसन्नाहं विचित्ररथकार्मुकम्
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ। अभिसारयामास तदा वेगैन पतगेन्द्रवत्
तदापतन्तं संदृश्य बलं साल्वपतेस्तदा। निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः
असहन्तोऽभियानं तत्साल्वराजस्य कौरव। चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च रमहारथः
ते रथैर्दंशिताः सर्वेविचित्राभरणध्वजाः। संसक्ताः साल्वराजस्य बहुभिर्योधपुङ्गवैः
गृहीत्वा कार्मुकं साम्बः साल्वस्य सचिवं रणे। यीधयामास संहृष्टः क्षेमधूर्तिं चमूपतिम्
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत्। मुमोच भरतश्रेष्ठ यथावर्षं सहस्रदृक्
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः। क्षेमधूर्तिर्महाराज हिमवानिव निश्चलः
ततः साम्बाय राजेन्द्र क्षेमधूर्तिरपि स्वयम्। मुमोच मायाविहितं शरजालं महत्तरम्
ततो मायामयं जालं माययैव विदार्यसः। साम्बः शरसहस्रेण रथमस्याभ्यवर्षत
ततः स विद्धः साम्बेन क्षेमधूर्तिश्चमूपतिः। अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः
तस्मिन्विप्रद्रुते शरे साल्वस्याथ चमूपतौ। वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः। वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन्
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम्। चिक्षेप तरसा वीरो व्याविद्ध्यन्सत्यविक्रमः
तया त्वभिहतो राजन्वेगवान्न्यपतद्भुवि। वातरुग्णं इव क्षुण्णो जीर्णमूलोवनस्पतिः
तस्मिन्निपतिते वीरे गदारुग्णे महासुरे। प्रविश्य महतीं सेनां योधयामास मे सुतः
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः। महारथः समाज्ञातो महाराज महाधनुः
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः। वृत्रवासवयो राजन्यथापूर्वं तथाऽभवत्
अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः। विनदन्तौ महाराज सिंहाविव महाबलौ
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम्। अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम्
स विविन्ध्याय सक्रोधः समाहूय महारथः। चिक्षेप मे सुतो राजन्स गतासुरथापतत्
विविन्ध्यं निहृतं दृष्ट्वा तां च विक्षोभितां चमूम्। कामगेन स सौभेन साल्वः पुनरुपागमत्
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम्। दृष्ट्वा साल्वं महाबाहो सौभस्थं पृथिवीगतम्
ततो निर्याय कौरव्य अवस्थाप्य च तद्बलम्। आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत्
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि। निवारयन्तं संग्रामे बलात्सौभं सराजकम्
अयं सौभपतेः सेनामायसैर्भुजगैरिव। धनुर्भुजविनिर्मुक्तैर्नाशयम्यद्य यादवाः
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति। मयाऽभिपन्नो दुष्टात्मा ससौभो विनशिष्यति