ततोऽहमपि कौरव्य रोषव्याकुललोचनः। निश्चित्य मनसा राजन्वधायास्य मनो दधे
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव। प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः
ततः सौभवधायाहं प्रतस्थे पृथिवीपते। स मया सागरावर्ते दृष्ट आसीत्परीप्सता
ततः प्रध्माप्य जलजं पाञ्चजन्यमहे नृप। आहूय साल्वं समरे युद्धाय समवस्थितः
तन्मुहूर्तमभूद्युद्धं तत्र मे दानवैः सह। शवीभूताश्च मे सर्वे भूतले च निपातिताः
एतत्कार्यं महाबाहो येनाहं नागमं तदा। श्रुत्वैव हास्तिनपुरे द्यूतं चाविनयोत्थितम्। द्रुतमागतवान्युष्मान्द्रष्टुकामः सुदुःखितान्
वासुदेव महाबाहो विस्तरेण महामते। सौभस्य वधमाचक्ष्व न हि तृष्यामि कथ्यतः
हतं श्रुत्वा महाबाहौ मया श्रौतश्रवं नृप। उपायाद्भरतश्रेष्ठ साल्वो द्वारवतीं पुरीम्
अरुणत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन। साल्वो वैहायसं चापि तत्पुरं व्यूह्य धिष्ठितः
तत्रस्थोऽथ महीपालो योधयामास तां पुरीम्। अभिसारेण सर्वेण तत्र युद्धमवर्तत
पुरी समन्ताद्विहिता सपताका सतोरणा। सचक्रा सहुडा चैव सयन्त्रखनका तथा
सोपशल्यप्रतोलीका साट्टाट्टालकगोपुरा। सचक्रग्रहिणी चैव सोल्कालातावपोथिका
सोष्टिका भरतश्रेष्ठ सभेरीपणवानका। सतोमराङ्कुशा राजन्सशतघ्नीकलाङ्गला
सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा। लोहचर्मवती चापि साग्निः सगुडशृङ्गिका। शास्त्रदृष्टेन विधिना सुयुक्ता भरतर्षभ
रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः। पुरुषैः कुरुशार्दूल समर्थैः प्रतिवारणे
अतिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे। मध्यमेन च गुल्मेन रक्षिभिः सा सुरक्षिता। उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः
आघोषितं च नगरे न पातव्या सुरेति वै। प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः
प्रमत्तेष्वभिघातं हि कुर्यात्साल्वो नराधिपः। इति कृत्वाऽप्रमत्तास्ते सर्वेवृष्ण्यन्धकाः स्थिताः
आनर्ताश्च तथा सर्वे नटनर्तकगायकाः। बहिर्निर्वासिताः सर्वे रक्षद्भिर्वित्तसंचयम्
संक्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः। परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः। समन्तात्क्रोशमात्रं च कारिता विषमा च भूः। `संक्रमा भेदिताः सर्वे प्राकाराश्च नवीकृताः
प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम्। प्रकृत्या चायुधोपेतं विशेषेण तदाऽनघ
सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम्। तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा
न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते। वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे
अनुरध्यासु सर्वासु चत्वरेषु च कौरव। बलं बभूव राजेन्द्र प्रभूतगजवाजिमत्
दत्तवेतनभक्तं च दत्तायुधपरिच्छदम्। कृतोपधानं च तदा बलमासीद्विशांपते
न कृप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी। नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः
एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः। आहुकेन सुगुप्ता च राज्ञा राजीवलोचन
तां तूपयातो राजेन्द्र साल्वः सौभपतिस्तदा। प्रभूतनरनागेन बलेनोपविवेश ह
समे निविष्टां सा सेना प्रभूतसलिलाशये। चतुरङ्गबलोपेता साल्वराजाभिपालिता