असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा। येनेदं व्यसनं प्राज्ञा भवन्तो द्यूतकारितम्
सोहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन। अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम्
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्रमानसः। तूर्णमभ्यागतोस्मित्वां द्रष्टुकामो विशंपते
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ। सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः
असान्निध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन। क्व चासीद्विप्रवासस्ते किंचाकार्षीः प्रवासतः
साल्वस्य नगरं सौभं गतोऽहं भरतर्षभ। निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम्
महातेजा महांवाहुर्यः स राजा महायशाः। दमघोषात्मजो वीरः शिशुपालो मया हतः
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति। स रोषवशमापन्नो नामृष्यत दुरात्मवान्
श्रुत्वा तं निहतं साल्वस्तीव्ररोषसमन्वितः। उपायाद्द्वारकां शून्यामिहस्थे मयि भारत
स तत्र युद्धमकरोद्बालकैर्वृष्णिपुङ्गवैः। निवृत्तः कामगं सौभमारुह्यैव नृशंसवत्
चिरजीवी नृपः सोऽपि प्रसादात्पद्मजन्मनः।' ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा। पुरोद्यानानि सर्वाणि भेदयामास दुर्भतिः
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः। वासुदेवः स मन्दात्मा वसुदेवसुतो गतः
तस्य युद्धार्थिनो दर्पं युद्धेनाशयिताऽस्म्यहम्। आनर्ताः सत्यमाख्यात तत्र गन्ताऽस्मि यत्र सः
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्। अहत्वा न निवर्तिष्ये सत्येनायुधमालभे
क्वासौ क्वासाविति पुनस्तत्रतत्र प्रधावति। मया सह रणे योद्धुं काङ्क्षमाणः स सौभराट्
अद्यतं पापकर्माणं क्षुद्रं विश्वासघातिनम्। शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम्
मम पापस्वभावेन भ्राता येन निपातितः। शिशुपालो महीपालस्तं वधिष्ये महीतले
भ्राता बालश्च राजा च न च संग्रामकोविदः। प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम्
एकमादि महाराज विलप्यदिवमास्थितः। कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन
तमश्रौषमहं गत्वा यथा वृत्तः स दुर्मतिः। मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः
ततोऽहमपि कौरव्य रोषव्याकुललोचनः। निश्चित्य मनसा राजन्वधायास्य मनो दधे
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव। प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः
ततः सौभवधायाहं प्रतस्थे पृथिवीपते। स मया सागरावर्ते दृष्ट आसीत्परीप्सता
ततः प्रध्माप्य जलजं पाञ्चजन्यमहे नृप। आहूय साल्वं समरे युद्धाय समवस्थितः
तन्मुहूर्तमभूद्युद्धं तत्र मे दानवैः सह। शवीभूताश्च मे सर्वे भूतले च निपातिताः
एतत्कार्यं महाबाहो येनाहं नागमं तदा। श्रुत्वैव हास्तिनपुरे द्यूतं चाविनयोत्थितम्। द्रुतमागतवान्युष्मान्द्रष्टुकामः सुदुःखितान्
वासुदेव महाबाहो विस्तरेण महामते। सौभस्य वधमाचक्ष्व न हि तृष्यामि कथ्यतः
हतं श्रुत्वा महाबाहौ मया श्रौतश्रवं नृप। उपायाद्भरतश्रेष्ठ साल्वो द्वारवतीं पुरीम्
अरुणत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन। साल्वो वैहायसं चापि तत्पुरं व्यूह्य धिष्ठितः
तत्रस्थोऽथ महीपालो योधयामास तां पुरीम्। अभिसारेण सर्वेण तत्र युद्धमवर्तत