पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो। तत्राचक्षमहं दोषान्यैर्भवान्व्यतिरोपितः
वीरसेनसुतो यैस्तु राज्यात्प्रभ्रंशितः पुरा। अतर्कितविनाशश्च देवनेन विशांपते
सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम्
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम्। दुःखं चतुष्टय प्रोक्तं यैर्नरो भ्रश्यते श्रियः
तत्रसर्वत्रवक्तव्यं मन्यन्ते शास्त्रकोविदाः। विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः
एकाहाद्द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च। अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम्
एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम्। द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम्
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम। अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्दन
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः। पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम्
अथैनमविनीतेन सुहृदो नाम दुर्हृदः। सभासदोऽनुवर्तेरंस्तांश्च इन्यां दुरोदरान्
असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा। येनेदं व्यसनं प्राज्ञा भवन्तो द्यूतकारितम्
सोहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन। अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम्
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्रमानसः। तूर्णमभ्यागतोस्मित्वां द्रष्टुकामो विशंपते
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ। सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः
असान्निध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन। क्व चासीद्विप्रवासस्ते किंचाकार्षीः प्रवासतः
साल्वस्य नगरं सौभं गतोऽहं भरतर्षभ। निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम्
महातेजा महांवाहुर्यः स राजा महायशाः। दमघोषात्मजो वीरः शिशुपालो मया हतः
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति। स रोषवशमापन्नो नामृष्यत दुरात्मवान्
श्रुत्वा तं निहतं साल्वस्तीव्ररोषसमन्वितः। उपायाद्द्वारकां शून्यामिहस्थे मयि भारत
स तत्र युद्धमकरोद्बालकैर्वृष्णिपुङ्गवैः। निवृत्तः कामगं सौभमारुह्यैव नृशंसवत्
चिरजीवी नृपः सोऽपि प्रसादात्पद्मजन्मनः।' ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा। पुरोद्यानानि सर्वाणि भेदयामास दुर्भतिः
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः। वासुदेवः स मन्दात्मा वसुदेवसुतो गतः
तस्य युद्धार्थिनो दर्पं युद्धेनाशयिताऽस्म्यहम्। आनर्ताः सत्यमाख्यात तत्र गन्ताऽस्मि यत्र सः
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्। अहत्वा न निवर्तिष्ये सत्येनायुधमालभे
क्वासौ क्वासाविति पुनस्तत्रतत्र प्रधावति। मया सह रणे योद्धुं काङ्क्षमाणः स सौभराट्
अद्यतं पापकर्माणं क्षुद्रं विश्वासघातिनम्। शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम्
मम पापस्वभावेन भ्राता येन निपातितः। शिशुपालो महीपालस्तं वधिष्ये महीतले
भ्राता बालश्च राजा च न च संग्रामकोविदः। प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम्
एकमादि महाराज विलप्यदिवमास्थितः। कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन
तमश्रौषमहं गत्वा यथा वृत्तः स दुर्मतिः। मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः