हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह। हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कटः
ततः संप्राद्रवन्सर्वे सह मात्रा परंतपाः। एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः
प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः। ततोऽगच्छन्नेकचक्रां पाणअडवाः संशितव्रताः
तत्राप्यासादयामासुर्बकं नाम महाबलम्। पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम्
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः। सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ
लब्धाऽहमपि तत्रैव वसता सव्यसाचिना। यथा त्वया जिता कृष्णरुक्मिणी भीष्मकात्मजा
एवं सुयुद्धे पार्थेन जिताऽहं मधुसूदन। स्वयंवरे महत्कर्म कृत्वा न सुकरं परैः
एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता। निवसाम्यार्यया हीना कृष्ण धौम्यपुरःसुरा
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः। निहीनैः परिक्लिश्यन्ति समुपेक्षन्ति मां कथं
एतादृशानि दुःखानि महन्ती दुर्बलीयसाम्। दीर्घकालं प्रदीप्ताऽस्मि पापानां पापकर्मणाम्
कुले महतिजाताऽस्मि दिव्येन विधिना किल। पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः
केशग्रहमनुप्राप्ता का नु जीवेत मादृशी। पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना। पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ। अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनःपुनः। बाष्पपूर्णेन कणअठेन क्रुद्धा वचनमब्रवीत्
नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः। न भ्रातरो न च पिता नैव त्वं मधुसूदन
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्। न च मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा
चतुर्भिः कारणैः कृष्ण त्वया रक्ष्याऽस्मि नित्यशः। संबन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव
अथ तामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे। रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि नामिनि
बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान्। निहतान्वल्लभान्वीक्ष्य शयानान्वसुधातले
यत्समर्थं पाण्डवनां तत्करिष्यामि मा शुचः। सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकली भवेत्। शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत्
तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात्। साचीकृतमवैक्षत्सा पाञ्चाली मध्यमं पतिम्
आबभाषे महाराज द्रौपदीमर्जुनस्तदा। मा रोदीः शुभताम्राक्षि यदाह मधुसूदनः। तथा तद्भविता देवि नान्यथा वरवर्णिनि
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्। दुर्योधनं भीमसेनः कर्णं हन्ता धनिजयः
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणए स्वसः। अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपास्थितः। तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत्
नैतत्कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप। यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः। आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च। वारयेयमहं द्यूतं बहून्दोपान्प्रदर्शयन्
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च। वैचित्रवीर्यं राजानमलं द्यूतेन कौरव