अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः। नोद्विजेयमहं तस्मान्निहनिष्येऽहमागतम्
तयोः श्रुत्वा तु संजल्पमागच्छद्राक्षसाधमः। भीमरूपो महानादान्विसृजन्भीमदर्शनः
केन सार्धं कथयसि आनयैनं ममान्तिकम्। हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि
सा कृपासंगृहीतेन हृदयेन मनस्विनी। नैनमैच्छत्तदाकर्तुमनुक्रोशादनिन्दिता
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः। अभ्यद्रवत वेगेन भीमसेनं तदा किल
तमभिद्रुत्य संक्रुद्धो वेगेन महता बली। अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम्। संहत्य भीमसेनाय व्याक्षिपत्सहसा करम्
गृहीतं पाणिना पाणिं भीमसेनस्य रक्षसा। नामृष्यत महाबाहुस्तत्राक्रुद्ध्यद्वृकोदरः
तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः। सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव
विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ। निजघान महावीर्यस्तं तदा निर्बलं बली
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह। हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कटः
ततः संप्राद्रवन्सर्वे सह मात्रा परंतपाः। एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः
प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः। ततोऽगच्छन्नेकचक्रां पाणअडवाः संशितव्रताः
तत्राप्यासादयामासुर्बकं नाम महाबलम्। पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम्
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः। सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ
लब्धाऽहमपि तत्रैव वसता सव्यसाचिना। यथा त्वया जिता कृष्णरुक्मिणी भीष्मकात्मजा
एवं सुयुद्धे पार्थेन जिताऽहं मधुसूदन। स्वयंवरे महत्कर्म कृत्वा न सुकरं परैः
एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता। निवसाम्यार्यया हीना कृष्ण धौम्यपुरःसुरा
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः। निहीनैः परिक्लिश्यन्ति समुपेक्षन्ति मां कथं
एतादृशानि दुःखानि महन्ती दुर्बलीयसाम्। दीर्घकालं प्रदीप्ताऽस्मि पापानां पापकर्मणाम्
कुले महतिजाताऽस्मि दिव्येन विधिना किल। पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः
केशग्रहमनुप्राप्ता का नु जीवेत मादृशी। पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना। पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ। अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनःपुनः। बाष्पपूर्णेन कणअठेन क्रुद्धा वचनमब्रवीत्
नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः। न भ्रातरो न च पिता नैव त्वं मधुसूदन
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्। न च मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा
चतुर्भिः कारणैः कृष्ण त्वया रक्ष्याऽस्मि नित्यशः। संबन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव
अथ तामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे। रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि नामिनि
बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान्। निहतान्वल्लभान्वीक्ष्य शयानान्वसुधातले